________________ 148 बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे (हारि०) व्याख्या-तात्स्थ्यात्तदयपदेशः' इतिन्यायान्मिश्रादिपञ्चगुणस्था जीवाः कर्मस्तवोक्तमोघं बध्नन्ति / तद्यथा-मिश्र 74 / अ० 77 / दे० 67 / प्र० 63 / अ० 59, इति तेजोलेश्याकाः / तथा पद्मलेश्याका अपि विकलत्रिकं नरकत्रिकं पूर्वोक्तस्वरूपम् / 'सुहुमतिग' इति सूक्ष्मनामसाधारणनामापर्याप्तकनामलक्षणसूक्ष्मत्रिकमेकेन्द्रियजातिस्थावरनामातपनाम चेति पदद्वयस्य समाहारद्वन्द्वस्तदिति द्वादशप्रकृतीरित्यर्थः, हित्वा' त्यक्त्वा विंशत्यधिकशतमध्यादिति शेषः / शेषं शतमष्टाधिकं सामान्येन 108 बध्नन्तीति प्राक्तनक्रियायोग इति / तथा तीर्थकराहारकद्विकहीनाः पूर्वोक्ताष्टाधिकशतसङ्ख्याः प्रकृतीमिथ्यादृशस्तु पद्मलेश्याका बध्नन्तीति योगः 105 / तथा पञ्चोत्तरशतं 'संढाइचउकोणं' इति नपुसकादिचतुष्केण पूर्वोक्तेनोनं हीनं नपुसकादिचतुष्कोनं पद्मलेश्याकाः सासादना बध्नन्तीति 101 / तथा मिश्रादयः ‘पणग' इति पञ्चौघं पद्मलेश्याका वध्नन्तीति योगः / तद्यथा-मिश्र० 74 / अ० 77 / देश० 67 / प्र० 63 / अ० 59, 58 / तुः' पूरणे समुच्चये वा / इति गाथद्वयार्थः / // 44-45 // उक्तः पद्मलेश्यावत्सु गुणस्थानकेषु बन्धः / साम्प्रतं शुक्ललेश्यावत्सु जीवेषु सामान्येन स उच्यते बंधति सुक्कलेसा, नारयतिरिसुहुमविगलजाइतिगं। इगिथावरायवुज्जोय वज्जिय सय तु चउरहिय // 46 // __ (हारि०) व्याख्या-बध्नन्ति शुक्ललेश्याकास्तु सामान्येनेति शेषः / किं तत् ? शतं चतुरधिकमिति संबन्धः / तुशब्दो योजित एव / किं कृत्वा ? 'वजिय' इति वर्जयित्त्वेति योगः / किं तत् ? नारकतिर्यक्तिकसूक्ष्मत्रिकविकलजातित्रिकम् / अत्र तत्पुरुषगर्भः समाहारद्वन्द्वः / त्रिकशब्दस्य च प्रत्येकमभिसंबन्धः कार्यः / तथा 'इगिथावरायवुज्जोय' इति विभक्तिलोपादेकेन्द्रियजातिस्थावरनामातपनामोद्योतनाम चेति प्रकृतिषोडशकमित्यर्थः, 'वर्जयित्वा' त्यक्त्वा विंशत्यधिकशतमध्यादिति शेष इति / तद्यथा-सामान्येन 104 / इति गाथार्थः // 46 // साम्प्रतं शुक्ललेश्यावतामेव त्रयोदशगुणस्थानकेषु बन्धमाह तित्थाहारदुगुणं, एगहियसयतु बंधही मिच्छा। संढाइचउकोणं, साणा बंधति 'सगनउइं॥४७॥ 1 "इग” इत्यपि / 2 “सगणवई" इत्यपि पाठः /