________________ लेश्याभेदेषु बन्धस्वामित्वम् [ 147 धिकशतप्रमाणा बध्नन्तीत्यत्रापि योज्यम् तद्यथा-सा० 101 / तथा सुरनरायुषी पश्चविंशति . च पूर्वोक्तामेकाग्रशतान्मुक्त्वा शेषां चतुःसप्ततिं 74 मिश्रा बध्नन्ति / इति गाथार्थः // 41 // तथा सुरनरआउयसहिया, अविरयसम्मा उ होंति नायब्वा / तित्थयरेण जुया तह, तेऊलेसे 'परं वोच्छं // 42 // __ (हारि०) व्याख्या-सुरनरायुष्कसहितास्तीर्थकरेण युताश्चतुःसप्ततिसंख्याः प्रकृतय इति शेषः। 'अविरयसम्मा उ' इति विभक्तिव्यत्ययात्तथाऽविरतसम्यग्दृष्टिषु 'भवन्ति' ज्ञातव्याः। तुशब्दः समुच्चयार्थः, स च प्राग् योजित एव / तथाशब्दोऽपीत्ययमर्थः-पूर्वोक्तां चतुःसप्ततिमेतत्प्रकृतित्रयसहितामतिरतसम्यग्दृशो बध्नन्ति 77 इति / अथगाथाचतुर्थपादेनाग्रेतनग्रन्थसंबन्धमाह 'तेऊलेसे' इति प्राकृतत्वात्तेजोलेश्यायामतः परं 'वक्ष्यं' अभिधास्ये / इति गाथार्थः // 42 // यथाप्रतिज्ञातमेवाह विगलतिगं निरयतिगं सुहमतिगूणं सयं तु एकारं / तित्थाहारूणा मिच्छ साण इगितिनपुचउरूणा // 43 // (हारि०) व्याख्या-अनुस्वारयोरलाक्षणिकत्वाद्विकलत्रिकनरकत्रिकसूक्ष्मसाधारणापर्याप्तलक्षणसूक्ष्मत्रिकोनं पुनर्विंशत्युत्तरशतमेकादशाधिकशतं भवति तच्छतमेकादशाग्रं 111 / तुशब्दो योजित एव, सामान्येन तेजोलेश्याका जोवा बघ्नन्तीति वक्ष्यमाणेन संबन्धः / 'तित्थाहारूणा' इति प्राकृतत्वेन द्विकशब्दलोपात्तीर्थकराहारकद्विकोना एकादशोत्तरशतसंख्यप्रकृतीमिथ्यादृशस्तेजोलेश्यावन्तोबध्नन्तीति 108 / 'इगिति' इति सूचकत्वात्सूत्रस्यकेन्द्रियजातिस्थावरातपना'मेति त्रिकं, 'नपुचउरूणा' इति प्राकृतत्वादेव नपुसकवेदहुण्डसंस्थानसेवार्तसंहननमिथ्यात्वलक्षणनपुंसकचतुष्कं, अनयोद्वन्द्वः ताभ्यामूना हीना एकेन्द्रियत्रिकनपुंसकचतुष्कोना अनन्तरोक्ता अष्टाधिकशतसङ्ख्याः प्रकृतय एकोत्तरशतसङ्ख्या भवन्नि 101 / तास्तेजोलेश्याकाः सासादना बध्नन्ति / इति गाथार्थः // 43 // मीसाईपंचगुणा, ओघं बंधंति पम्हलेसा वि। विगलतिगं निरयतिगं, सुहुमतिगेगिंदिथावरायावं, // 44 // हिच्चा सयमट्टहियं, तित्थाहारदुगहीण मिच्छाओ। संढाइचउकोणं, साणा मीसाइ पणगओघं तु // 45 // गीतिद्वयम् // * 1 हुति" इत्यपि पाठः 2 "परे वुच्छ” इत्यपि / 3 "इक्कारं" इत्यपि पाठः /