________________ बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे (हारि०)व्याख्या-चक्षुरचक्षुर्दर्शनयोमिथ्यादृगादि 'वीणमोह' इति प्राकृतवशात्पदैकदेशेऽपि पदावगमाल्क्षीणमोहान्तेष्वोघबन्धः / तद्यथा-सामान्यतः 120 / मि० 117 / सा० 101 / मि० 74 / अ० 77 / दे० 67 / प्र० 63 / अ० 59, 58 / नि० 58, 56, 26, / अ० 22, 21, 20, 19, 18 / सू० 17 / उ० 1 / क्षी० 1 / तथा 'ओहिस्स' इति / विभक्तिव्यत्ययादवधिदर्शने अयतादिष्वविरतसम्यग्दृष्टयादिषु नवस्वितिभणनाक्षीणमोहान्तेष्विति लभ्यते ओघबन्धः / तद्यथा-अविरतस्य सप्तसप्तति 77 रित्यादिरनन्तरं दर्शित एवेति / 'केवलदसण' इति विभक्तिलोपात्केवलदर्शने 'केवलिदुगे चेव' इति केवलिसत्कसयोग्ययोगिगुणस्थानकद्विके चौघबन्ध इति पूर्वेण संबन्धः। तद्यथा-स० 1 / अ०-० / इति गाथार्थः 39 // इति दर्शनद्वारे बन्धस्वामित्वं 'निरूपितम् 9 // साम्प्रतं लेश्याद्वारमभिधीयते, तत्रादौ गुणस्थानकेषु ताः प्रतिपाद्य ततस्तद्गतं बन्धस्वामित्वं भणिष्यते छच्चउसु तिण्णि तीसु, छण्हं सुक्का अजोगि अल्लेसा। आहारूणा आइतिलेसी बंधति सव्वपयडीओ ॥४०॥गीतिरियम् / / (हारि०) व्याख्या-षड् लेश्याश्चतुर्यु आद्यगुणस्थानकेषु ततस्तिस्रो लेश्यास्तेजोलेश्याद्यास्त्रिषु देशविरतप्रमत्ता प्रमत्तेषु ततः 'छण्हं' इति विभक्तिव्यत्ययात् षट्सु निवृत्तिबादरगुणस्थानकादिषु सयोग्यन्तेषु / शुक्लैवैका लेश्या, अयोगिनस्त्वलेश्या एवेति / अङ्कतः-मि० 6 / सा० 6 / मि० 6 / अ० 6 / दे० 3 / प्र० 3 / अ० 3 / नि० 1 / अ० / 1 सू० 1 / उ० 1 क्षी० 1 / स० 1 / अ०-० / इति योजिता लेश्या गुणस्थानकेषु / साम्प्रतमुक्तलेश्यावत्सु गुणस्थानकेषु बंधस्वामित्वं योज्यते-आहारकद्विकोनाः सर्वाः प्रकृतीः 'आइतिलेसी' इति प्राकृतशैलीवशादायत्रिलेश्यावन्तः, इत्याद्यगुणस्थानकचतुष्केऽपि योज्यम् / सामान्येन बध्नन्ति 118 / इति गाथार्थः // 40 // तथा मिच्छा तित्थोणा ता, साणा उण सोलसविहूणा / सुरनरआऊ ‘पणवीस मोत्तु बंधति मीसा उ // 41 // उद्गीतिरियम् (हारि०) व्याख्या-मिथ्यादृशस्तीर्थकरोनास्ता अनन्तरोक्ता अष्टादशाधिकशतसंख्याः प्रकृतीर्वघ्नन्तीति योगः / तद्यथा-मि० 117 / सासादनाः पुनः पोडशविहीनास्ताः पूर्वोक्तसप्तदशा 1 "प्ररुपितम्” इत्यपि / 2 "स्तद्वारबन्ध०” इत्यपि / 3 “तिन्नि” इत्यपि। 4 "०प्रमत्तान्तेषु इत्यपि / 5, पणुवीस मुत्तु " इत्यपि।