________________ सम्यक्त्व-संज्ञ्या-ऽऽहारकमार्गणाभेदेषु बन्धस्वामित्वन [ 151 औपशमिक सोऽपि नास्तीति भावः / अयं चौघबन्धः कियडूरं यावत् ज्ञेयः 1 इत्याह-यावत् 'उपशान्तं' उपशान्तमोहवीतरागगुणस्थानकं प्राकृतत्वात्पुल्लिङ्गनिर्देश इति / अङ्कतः पुनरीदृशः दे० 66 / प्र० 26 / अ० 58 / नि०५८, 56, 26, / अ० 22, 21, 20, 19, 18 // सू० 17 / उ० 1 / अत्र देवायुर्वन्धाभावाद्देशविरतिप्रभृतिगुणस्थानकाय एव कर्मस्तवोक्तबन्धाद्विशेषः, नान्यत्रेति / यदा पुनरुपशमश्रेणिस्य आयुष्क क्षये देवेषत्पद्यतेऽसौ तदा त्वप्रतिपन्नौपशमिकसम्यक्त्व एवायुर्वन्धं विधत्त इति / इह सूत्रेऽनुक्तोऽपि सम्यक्त्वविपक्षभूतेषु मिथ्यात्वसासादनमिश्रेषु कर्मस्तवोक्त ओघवन्धो द्रष्टव्यः / स पुनः-मि० 117 / सा० 101 / मि० 74 / इति / अत्राह परः-ननु "उवसामगसेढोए, पट्ठवओ अप्पमत्तविरओ उ / पज्जवसाणे सो वा, होइ पमत्तो अविरओ वा // 9 // " अयमर्थः-उपशमश्रेण्याः 'प्रस्थापकः' आरोहकः 'अप्रमत्तविरतः' सप्तमगुणस्थानकस्थः साधुर्भवति / स एवौपशमिकः 'पर्यवसाने' उपशमश्रेण्या अद्धाक्षये भवति प्रमत्तोऽविरतो वा / तथा ‘सो वा' इत्यत्र वाशब्दादुपशमश्रेणिस्थो मृतो वा देवेषत्पन्नोऽविरतो वा भवतीति, सत्यम् , अपराचार्यमतेनाविरतादयोऽपि प्रारम्भका इति / 'यत उक्तम्-"अन्ने भणंति अविरयदेसपमत्तविरयाणं। अन्नयरो पडिवजह सणसमणम्मि उ नियहो // 1 // " चतुर्थपादस्यायमर्थः दर्शनत्रिकोपशमे सति निवृत्तिवादरो भवतीति / औपशमिकसम्यक्त्वं तूपशमश्रेण्या प्रथमसम्यक्त्वलामे चा भवति जीवस्य / उक्तं च-"उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत् / जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं // 1 // ' अत्राह परः-ननु क्षायोपशमिको पशमिकसम्यक्त्वयोः कः प्रतिविशेषः, उच्यते-क्षायोपशमिकसम्यक्त्वमिथ्यात्वदलिकवेदनं विपाकतो नास्ति, प्रदेशतः पुनर्विद्यते / औपशमिके तु प्रदेशतोऽपि नास्तीति विशेषः / एवं सप्रपञ्चं सम्यक्त्वद्वारे बन्धस्वामित्वमभिहितमिति 12 / / 'ओघो सपिण.' इत्यादि ओघबन्धः कर्मस्तवोक्तः 'संज्ञिषु' मनोविज्ञानवत्सु ज्ञेयः / तद्यथा-सामान्येन 120 / मि० 117 / इत्यादिकः पूर्ववदिति / तथा मिथ्यादृष्टिभङ्गकः 'असंज्ञिषु' मनोविज्ञानविकलेषु ज्ञेय इति पूर्वेण योगः / तद्यथा-मि० 117 / इति गाथार्थः // 52 // ____ अथ गाथायाः पूर्वार्द्धन सासादनेऽसंज्ञिबन्धं समर्थयनपरार्द्धनाहारकद्वारे सप्रतिपक्ष तमेवाह साणेवि असण्णिस्सा, भंगा 'सण्णुब्भवा मुणेयवा। आहारगेसु ओघो, इयरेसु य 'कम्मणो भंगो // 53 // 10 क्षये सवार्थसिद्धावुत्पद्यतेऽसौ तदा” इति जे० / 2 “यदुक्तम्” इत्यपि / 3 “सन्निव्मवा" / इत्यपि / 4 "कम्मुणो" इत्यपि पाठः /