________________ 144 ) बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे रसगुणे मोतु // 1 // ' तथा 'सजोगि सायं समुग्घाए' इति विभक्तिलोपात्सयोगिनस्त्रयोदशगुणस्थानवर्तिनः समुद्धाते केलिसमुद्धाते तृतीयचतुर्थपञ्चमसमयेषु कार्मणकाययोगे सातमेवैकं 1 बजन्तीत्यत्रापि प्राक्तनेन संबन्धः / एवं च कार्मणकाययोगो मिथ्यात्वसासादनाविरतसयोगिगुणस्थानकचतुष्टय एव लभ्यते, नान्यत्र / इति गाथार्थः // 32-33-34 // एवं योगेषु बन्धस्वामित्वमुक्तम् 4 // साम्प्रतं वेदद्वारे कषायद्वारे च तत्प्रतिपादयन्नाह वेयतिएवोघेणं, बंधो जा बायरो हवइ ताव / कोहाइसु चउसोधो, मिच्छाओ जाव 'अनियट्टिं // 35 // (हारि०) व्याख्या-'वेदत्रिकेऽपि' स्त्रीवेदपुरुषवेदनपुसकवेदरूपे 'ओघेन' सामान्येन बन्धः कर्मस्तवोक्तो यावदनिवृत्तिवादरगुणस्थानकं तावद्भवति, ततः परं वेदानामभावादिति / तद्यथासामान्येन 120 / मि० 117 / सासादन 101 / मिश्र 74 / अविरत 77 / दे० 67 / प्र० 63 / अ० 59, 58 / नि० 58, 56 26 / अ० 22, 21, 20, 19,18, / इति वेदेषु बन्धस्वामित्वमुक्तम् 5 // तथा क्रोधादिषु चतुष्ोघवन्धो मिथ्यादृष्टेरारभ्य यावदनिवृत्तिबादरगुणस्थानकम् / तद्यथा-सामान्येन 120, मि० 117, सा० 101, इत्यादिकोऽनन्तरोक्तो वेदद्वारवत् / इति गाथार्थः / / 3 / / इति कषायद्वारे बन्धस्वामित्वमुक्तम् 6 // साम्प्रतं ज्ञानद्वारे गुणस्थानकगर्भ यथायोगं तदारभ्यते / अण्णाणतिएवोघो, मिच्छासाणेसु नवसु नाणतिए / मणपज्जवेवि सत्तसु, ओघं दुसु केवलिस्सावि // 36 // (हारि०) व्याख्या 'अज्ञानत्रिकेऽपि' मत्याज्ञानश्रुताज्ञानविभङ्गरूपे मिथ्यादृष्टिसासादन'गुण-स्थानकयोरुपलक्षणत्वान्मिश्रे चौघबन्धः / तथा 'ज्ञानत्रिके' मतिज्ञानश्रुतज्ञानावधिज्ञानलक्षणे 'नवसु' गुणस्थानकेष्वविरतसम्यग्दृष्टयादिक्षीणमोहान्तेष्योघबन्ध इति संबन्धः / तथा मनःपर्यायज्ञानेऽपि सप्तसु गुणस्थानकेषु प्रमत्तसंयतगुणस्थानादिक्षीणमोहान्तेषु 'ओध' इति प्राकृतत्वादोघबन्ध इति / तथा केवलिनोऽपि 'द्वयोः' सयोग्ययोगिगुणस्थानकयोरोघवन्ध इति पूर्वेण योगः / सर्वत्र कर्मस्तवोक्तोऽयमोघबन्धो द्रष्टव्यः / यत्पुनरप्योघशब्दोपादानमेकगाथायां तत्सुखार्थम् / तथा त्रयोऽप्यपिशब्दाः समुच्चयार्थाः / स चाङ्कत एवम् / अज्ञानत्रिके-सामान्येन 1 “अनियट्टी” इत्यपि पाठः। 2 “ओघो” इत्यपि पाठः / 3 "केवलस्सावि" इत्यपि पाठः / 4 "-गुणस्थानवं यावदुपल०" इत्यपि //