________________ वैफ्रियमिश्रा-ऽऽहारकद्विक-कार्मण-काययोगेषु बन्धस्वामित्वम् अर्थ गुणस्थानकदृष्टान्तपूर्वकं किंचिदधिकपादेनाहारकयोगद्वये, तथा सामान्यपदे गुणस्थानचतुष्टये च तदूनगाथात्रयेण कार्मणकाययोगे बन्धमाह तेवढाहारदुगे, जहा पमत्तस्स कम्मणे बंधो / आउतिगं निरयतिगं, आहारय वजिओघो // 32 // 'सुरदुगतित्थविउब्वियदुगाणि मात्त ण बंधहि मिच्छा। निरतिगहीणा सोलस, वजित्ता सासणा कम्मे // 33 // तिरियाऊणं पणुवीस 'मोत्तु सुरदुगविउविदुगजुत्तं / अजया तित्थेण समं, सजोगि सायं समुग्घाए॥३४॥ (हारि०) व्याख्या-'तेवठ्ठा' इति प्राकृतत्वाद्विभक्तिलोपे त्रिषष्टेः 63 कर्मप्रकृतीनामिति गम्यते आहारकद्विके आहारकशरीर तन्मिश्रलक्षणयोगद्वये बन्धो यथा प्रमत्तस्येति षष्ठीसप्तम्योरर्थ प्रत्यभेदाद्यथा प्रमत्ते प्रमत्तगुणस्थानके बन्धशब्दस्य वक्ष्यमाणस्यात्रापि योजनादेवं संबन्धः / साम्प्रतं कार्मणकाययोगे बन्धमाह-'कम्मणे बंधो आउतिगं' इत्यादि, आयुत्रिकं तिर्यङ्नरामरायुष्कलक्षणम् / नरकत्रिकं प्रागुक्तम् / 'आहारय' इति सूचकत्वात्सूत्रस्याहारकशरीरतदङ्गोपाङ्गलक्षणं द्वयं ग्राह्य, इत्यष्टावोघबन्धाद्विशत्युत्तरशतलक्षणाद्वर्जयित्वा शेषम्य द्वादशोत्तरशतस्य 112 सामान्येन कार्मणकाययोगे बन्धः / इति गाथार्थः // 32 // तथा-सुरद्विक 2 तीर्थकर 1 वैक्रियद्विकानि 2 पूर्वोक्तानि, तत्पुरुषगर्भकृतद्वन्द्वसमासानि कर्माणीति शेषः, अनन्तरोक्तसामान्यबन्धद्वादशोत्तरशतमध्यान्मुक्त्वा शेषं सप्तोत्तरशतं 107 कार्मणकाययोगे मिथ्यादृशो बध्नन्ति / तथा नरकत्रिकहीनाः षोडश प्रकृतीरिति शेषः, अनन्तरोक्तसप्तोत्तरशतमध्यावजैयित्वा शेषां चतुर्नवति 64 सासादनसम्यग्दृष्टयः 'कम्मे' इति कार्मणकाययोगे बध्नन्तीति प्राक्तनेन संबन्ध इति / 'कम्मणे बंधो' इति प्राक्तनगाथाया अनुवर्तमाने कार्मणकाययोगे यत् पुनरिहोक्तम् 'कम्मे' इति तद्गणस्थानकयोजनार्थमिति न दोषः / इति गाथार्थः // 33 // तथा-तिर्यगायुरूनां 'पणुवीस' इति विभक्तिलोपात्पञ्चविंशतिमनन्तरोवतचतुर्नवतेमध्यान्मुक्त्वा शेषां सप्तति सुरद्विकवैक्रियद्विकयुक्तां तीर्थकरेण च 'सम' सार्द्ध पञ्चसप्ततिमित्यर्थः, अयता अविरतसम्यग्दृष्टयः कार्मणकाययोगे बध्नन्तीति 75 पूर्वेण संबन्धः / अयं च कार्मणकाययोगो विग्रहगतौ गच्छतो जीवस्यानाहारकस्यैतद्णस्थानत्रयोपेतस्य लभ्यते / तथाहि-"मिच्छे सासाणे वा, अविरयसम्मम्मि अहव गहियम्मि / जति जिया परलोए, सेसेक्का - 1 मुत्तुण इत्यपि पाठः / 2 मुत्तु इत्यपि पाठः / ३"-तन्मिश्रलक्षणे योगद्वये” इति व्यस्त कचित् / /