________________ 242] कन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे षण्णवतिः 66, मिश्राणां सप्ततिः 70, 'अविरतसम्यग्दृशां द्विसप्तति 72 रिति / नारकाणां तु सामान्येनैकाधिकं शतं 501, मिथ्यादृशां शतं 100, सासादनानां षण्णवतिः 66, मिश्राणां सप्ततिः 70, अविरतानां द्विसप्तति 72 रिति / स्वभावस्थदेवनारकचैक्रिययोगोऽत्र गृहीतः / इति गाथाद्वयार्थः / / 28-26 // ___साम्प्रतं वैक्रियमिश्रयोगेऽपि देवनारकबन्धातिदेशगर्भ सामान्यपदे मिथ्यात्वसासादनाविरतगुणस्थानकत्रये च तन्निरूपयन्नाह वेउब्वियमीमम्मि वि. तिरियनराऊहिँ वज्जिया सेसा। तित्थोणा ता मिच्छा, बंधहिँ माणा उ चउणउई // 30 // .. एगिदिथावरायवसंढाइचउक्वजिया सेसा / तिरियाऊणं पणुवीम 'मोत्तु अजया मतित्था उ॥३१॥ (हारि०) व्याख्या-वैक्रियमिश्रयोगेऽपि न केवलं वैक्रिययोग इत्यपिशब्दार्थः / अनन्तरं देवनारकवैक्रिययोगोक्ताः प्रकृतीस्तिर्यग्नरायुया वर्जिताः शेषा द्वयु त्तरशतसङ्ख्याः सामान्रोन देवाः 102, नारकास्तु नव नवतिप्रमाणा 99 बध्नन्ति / इह देवनारका निजायुषः षण्मासावशेषा एवायुर्वघ्नन्ति, अतो मिश्रयोगे उत्पत्तिकाले आयुयबन्धाभावे ता एव सामान्योक्ताः प्रकृतीस्तीर्थकरोना मिथ्यादृशो देवाः 101 नारकाश्च 98 बध्नन्तीति // 30 // अथ 'एगिदि' इत्यादिगाथा वित्रियते-ता एव पुनरेकेन्द्रियजातिस्थावरातपनामनपुसकवेदहुण्डसंस्थानसेवार्तसंहनन मिथ्यात्वरूपनपुंसकचतुष्कवर्जिताः शेषाः सासादनवर्तिनो देवाः 94, 'नारका नपुसकचतुष्केण वर्जिताः शेषाः न त्वेकेन्द्रियादित्रयेण तस्य प्रागेव 'थावरचउ जाईचउ' इत्यादिगाथयाऽपनीतत्वादित्यतश्चतुर्नवति 94 सङ्ख्या एव बध्नन्ति / तथा तिर्यगायुरूनां 'पणवीस' इति विभक्तिलोपात् पञ्चविंशतिं मुक्त्वा सतीर्थकराः कर्मप्रकृतीरयता अविरतसम्यग्दृष्टिदेवाः 71, तुशब्दः समुच्चयाः / नारकाश्च 71 बध्नन्ति वैक्रियमिश्रयोग इति पूर्वेण योगः / मिश्रता चात्र प्रथमोत्पत्तौ कार्मणकायेनव सह मन्तव्येति / अयं च मिथ्यात्वसासादना"विरति गुणस्थानकत्रय एव लभ्यते नान्यत्र / यत एतेष्वेव गृहीतेषु जीवा म्रिय ते नान्येषु / तथाहि-"मिच्छे सासाणे वा, अविरयसम्मम्मि अहव गहियमि ! जंनि जिया परलोए, सेसेकारसगुणे मोत्तुं // 1 // " इति गाथाद्वयार्थः // 30-31 // 1 "अविरतानां द्वासप्तति 72 रिति” इत्यपि // 2 "मुत्तु " इत्यपि पाठः। 3 "इह देवनारका निजायुषः षण्मासावशेषा एवायु बेध्नन्ति, अतो मिश्रयोगे उत्पत्तिकाले आयुर्दू यबन्धाभावे” इति पाठो जे० प्रतौ न दृश्यते / 4 "नारकाश्च नपुंसकादि चतु० इत्यपि / 5 "विरत०” इत्यपि।