________________ कायभेदेषु ये गभेदेषु च बन्धस्वामित्वम् [ 141 सुरदुग'विउब्वियदुर्ग, तित्थं हिच्चा सयं नवग्गं तु। बंधति उरलमिस्से. मिच्छा उ सजोगिणो मायं // 27 // (हारि०) व्याख्या-सुरद्विकवैक्रियद्विकं पूर्वोक्तम् , अत्र तत्पुरुषगर्भः समाहारद्वन्द्वः, तीर्थकरनाम चेति प्रकृतिपञ्चकमनन्तरोक्तसामान्यवन्धाच्चतुर्दशोत्तरशतादिति गम्यते, 'हित्वा' परिन्यज्य शेष नवाग्रशतमौदारिक मिश्रयोगे मिथ्यादृशस्तु बध्नन्ति 109 / तथा सयोगिन औदारिकमिश्रयोग इति पूर्वेण योगः, केवलिसमुद्धाते सप्तमषष्ठद्वितीयसमयेषु सातमेवैकं 1 बध्नन्तीति पूर्वेण संबन्धः / अत्र यदुत्क्रमतः सयोगिग्रहणं तल्लाघवार्थम् / यच्च प्राक्तनगाथायाः 'औदारिकमिश्रे' इति पदेऽनुवर्तमाने पुनस्तत्पदोपादानं तद्भिन्नगाथायां सुखार्थम् / इति गाथार्थः // 27 // अथ सार्द्धगाथयौदारिकमिश्रयोगे बन्धं समर्थयन् गाथार्द्धन वैक्रिययोगे देवनारकबन्धसमतां दर्शयन्ना(यश्चा)ह निरतिगहीणा सोलस, तिरिनरआ विमोत्त साणा वि / तिरियाउविहीणं पण्णवीसमुज्झित्त अविरए बंघो // 28 // तित्थं वेउविदुर्ग, सुरदुगसहिय उरलमिस्से / सामनदेवनार यबंधो नेओ विउविजोगे वि // 29 // गीत्युद्गीती एते गार्थ (हारि०) व्याख्या-नरकत्रिकहीनाः षोडश प्रकृतीः तथा तिर्यङ्नरायुषी अपि नवोतरशतमध्यादनन्तरोक्तान्मुक्त्वा शेषां चतुर्नवति 64 मौदारिकमिश्रयोग इति पूर्वेणयोगः / 'साणा वि' इति, सासादनसम्यग्दृशोऽपि / अपिशब्दः समुच्चयार्थः / बध्नन्तीति प्राक्तनेन संबन्धः / तथा चतुर्नवतेमध्यात्तिर्यगायुविहीनां पञ्चविंशतिं 'उज्झित्वा' परित्यज्य शेषायाः सप्ततेः 'तित्थं वेउव्विदुगं सुरदुगसहियं इति, प्राकृतवशात्तीर्थकरनाम वैक्रियद्विकं सुरद्विकसहितमिति पञ्चप्रकृतिसहिताया 75 औदारिकमिश्रयोगे 'अविरए' इति, अविरतसम्यग्दृष्टिगुणस्थानके बन्धः / एवं गुणस्थानकचतुष्क एवौदारिकमिश्रयोगोऽपि लभ्यते नान्यत्रेति / मिश्रता चात्र कार्मणेनैव सह मन्तव्येति / 'सामन्नदेवनारयबंधो नेभो विउविजोगे वि' इति, वैक्रिययोगेऽपि सामान्यदेवनारकबन्धो ज्ञेयः / स च प्रागेव प्रतिपादितः, तद्यथा-देवानां सामान्येन 'चतुरप्रशतं 104, मिथ्यादृशांगुत्तरशतं 103, सासादनसम्यग्दृशां .1 "वेउव्विदुगं" इत्यपि पाठः / 2 "मुत्तु" इत्यपि पाठः। 3 "बंधे” इति मुद्रितप्रतौ / 4 "ग्ण" इत्यपि / 5 "सहेति मन्तव्यमिति" इति जे०।६"चतुरुत्तरशतम्" इति जे०।