________________ 140 ] पन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे उक्तमिन्द्रियेषु बन्धस्वामित्वम् 2 // साम्प्रतं कायेषु तदुच्यते भूदगवणकाया एगिदिसमा मिच्छसाणदिट्ठीओ। मणुयतिगुच्चं 'मोत्त, सुहुमतसा ओघ थूलतसा॥२५॥ (हारि०) व्याख्या- अत्रैवं योजना कार्या मिथ्यादृशः सासादनसम्यग्दृशश्च भूदगवनस्पतिकाया एकेन्द्रियसमाः / एकेन्द्रियाणां तु पूर्वमिदमुक्तम् , तद्यथा-ओघतः 109, मि० 109, सा० 96 / प्रागुक्तमतान्तरेण तु चतुर्नवतिरपि 94 द्रष्टव्या / तथा 'मणुय' इत्यादि, अस्यायमर्थः पूर्वोक्तैकेन्द्रियविकलेन्द्रियसत्कान्नवाग्रशतान्मनुजत्रिकोच्चैर्गोत्रं मुक्त्वा 'सूक्ष्मत्रसाः' तेजोवायुकायजीवः पञ्चोत्तरशतं 105 बध्नन्ति / तथा 'ओघ' इति, अनुस्वारलोपादोघं विंशत्युतरशतादिलक्षणं कर्मस्तवोक्तं 'स्थूलत्रसाः' त्रयकायिका बघ्नन्तीति शेषः / अङ्कतः स प्रागेव दर्शितः / इति गाथार्थः // 25 // एवं कायेषु बन्धोऽभिहितः 3 // साम्प्रतं योगेषु तं प्रतिपादयन्नाह 'मणवइजोगचउक्के, ओघो डरलेवि ओघनरभंगो। निरतिगसुराउआहारगं च हिच्चा उ 'तमीसे // 26 // " (हारि०) व्याख्या- "मनोवाग्योगचतुष्के' इति चतुष्कशब्दस्य प्रत्येकमभिसंबन्धान्मनोयोगचतुष्के वाग्योगचतुष्के चेत्यर्थः, सत्य 1 मृषा 2 मिश्रा 3 ऽसत्यामृपाख्ये 4 / एतत्स्वरूपं संक्षेपत इदम्-'अस्ति जोवः' इत्यादिचिन्तनपरं सत्यम् / एतद्विपरीतं मृषा / तथा धवखदिरादिषु वृक्षेषु सत्सु खदिरवनमिदमिति मिश्रम् / सत्यमृषाविकलमसत्यामृपं आज्ञापनादि, यथा-हे देवदत्त ! घटमानय, धर्म कुरु, भिझा देहीति / विस्तरव्याख्यानं तु ग्रन्थान्तरादवसेयं, गमनिकामात्र त्वात्प्रस्तुतप्रयासस्येति ओघबन्धो विंशत्युत्तरशतादिलक्षणः 120 कर्मस्तवाभिहितो विज्ञेय इति शेषः / तथौदारिकेऽपि 'ओघनरभङ्ग' सामान्यमनुष्यभङ्गको द्रष्टव्य इति शेषः, अङ्कत उभयेऽपि भङ्गकाः प्राक् प्रदर्शिता एव / तथा नरकत्रिकसुरायुराहारकद्विकं विहितसमाहाहारद्वन्द्वसमासं प्रकृतिषट्कं विंशत्युत्तरशतमध्यादिति शेषः, हित्वा शेषस्य चतुर्दशाधिकशतस्य 114 'तन्मिश्रे' त्वौदारिकमिश्रे सामान्येन बन्ध इ.त शेषः / सुरद्विकभावना "सप्तमनरकथिव्या नरद्विकभावनावद्दष्टव्या / इति गाथार्थः / / 26 / / अथौदारिकमिश्रेऽपि गुणस्थानकविशिष्टं तमाह१ "मुत्तु” इत्यपि पाठः। 2 "मणवय" इत्यपि पाठः / 3 "तु" इति मुद्रितप्रतौ / 4 "तम्मिरसे" इत्यपि पाठः। "मनोयोगवा०" इत्यपि / ६"त्वादेतत्म०" इति जे०। ७“सप्तमनरकपथिव्या” इति पाठो।