________________ ___ सनत्कुमारादिदेवभेदेष्विन्द्रियभेदेषु च बन्धस्वामित्वम् / 136 नभिधानेऽपि मिथ्यात्वादिगुणस्थानकत्रयाभावात्पश्चोत्तरविमानदेवा एतामेवाविरतगुणस्थानकसत्कां द्विसप्तति 72 वध्नन्ति इति गाथार्थः / / 21 / / इति देवगतौ बन्धस्वामित्वमुक्तम् , तद्भणनाच गतिबन्धमार्गणा समाप्ता 1 // साम्प्रतमिन्द्रियेषु तदारभ्यते तित्थाहारं निरयसुराउ 'मोत्तु विउव्विछक्कं च / __ इगविगलिदी बंधहि , नवुत्तरं ओघमिच्छा य // 22 // (हारि०) व्याख्या-'तित्थाहारं' इति, द्विकशब्दो लुप्तो द्रष्टव्यः / ततस्तीर्थकरा 1 ऽऽहारकद्विकं 3, नरकायुः 4, सुरायुः 5, 'वैक्रियषट्कं च' वैक्रियशरीर 6 तदङ्गोपाङ्ग 7 सुरगति 8 सुरानुपूर्वी 9 नरकगति 10 नरकानुपूर्वीलक्षणं 11 विंशत्युत्तरशतमध्यादिति शेषः, मुक्त्वा शेषं नवोत्तरं शतमिति गम्यते 109, 'ओघ' इति प्राकृतत्वात् सामान्यपदिनो मिथ्याशश्च 109 एकेन्द्रियविकलेन्द्रिया बध्नन्ति / इति गाथार्थः // 22 // ____ अथ गाथायाः प्रथमार्द्धन तेषां सासादने बन्धं समर्थयन्नपरार्द्धन पञ्चेन्द्रियेषु तमाह साणा बंधहिँ सोलस, 'निरतिगहीणा य मोत्तु छन्नउइं। ओघेणं वीसुत्तर-सयं च पंचिंदिया बंधे // 23 // (हारि०) व्याख्या-अत्रापि पदघटनैवं कार्या-नरकत्रिकहीनाच पोडश प्रकृतीनवोत्तरशतमध्यान्मुक्त्वा शेषां षण्णवति 96 मेकेन्द्रियविकलेन्द्रियाः सासादना बध्नन्ति / पञ्चेन्द्रियाः पुनः चश.ब्दस्य पुनरर्थस्यात्र योजनात् 'ओघेन' सामान्येन विंशत्युत्तरशतं 120 'बन्धे' इति प्राकृतत्वाद्वध्नन्तीति, अत्रोपलक्षणत्वान्मिथ्यात्वादिषु च कर्मस्तवोक्तबन्धो द्रष्टव्यः / इति गाथार्थः / / 23 / / . अत्रैवैकेन्द्रियविकलेन्द्रियेषु सासादनमाश्रित्य मतान्तरमाह 'इगिविगलिंदी साणा, तणुपज्जत्तिं न जंति जं तेण। नरतिरियाउअबंधा, मयतरेणं तु 'चउणउई // 24 // (हारि०) व्याख्या-एकेन्द्रियविकलेन्द्रियाः सासादनाः सन्तः 'तनुपर्याप्तिं' शरीरपर्याप्ति 'न यान्ति' न गच्छन्ति, 'यद' यस्माद्धेतोस्तेन ते नरतिर्यगायुरबन्धा इति मतान्तरण पुनश्चतुनवति 64 बध्नन्तीति / अत्र भावार्थः-पूर्वमतेन शरीरपर्याप्त्युत्तरकालमपि सासादनमावस्येटत्वादायुर्वन्धो ऽभिप्रेतः / इह तु प्रथममेव तन्निवृनष्टः / इति गाथार्थः // 24 // 1 "मुत्तु” इत्यपि पाठः। 2 "इगि” इत्यपि पाठः। 3 “निरि" इत्यपि पाठः / 4 "मुत्त छन्नउई" इत्यपि पाठः / 5 "ग" इत्यपि पाठः / 6 “चउणउई" इत्यपि पाठः / ७-"ऽभिहितः" इत्यपि पाठः।