________________ 138 ] बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे राद्याः सहस्रारान्ता देवा एकेन्द्रियजातिस्थावरातपोनमोघं चतुरग्रशतादिलक्षणं बध्नन्ति / तद्यथासामान्येकैकाग्रशतं 101, मिथ्यादृशः शतं 100, सासादनाः षण्णवति 96, मिश्राः सप्ततिं 70, अयता द्विसप्तति 72 मित्यत्र सासादनादिगुणस्थानकत्रये एकेन्द्रियादिप्रकृतित्रयस्य, "तित्थोणं तं मिच्छा, साणा छेवट्ठहुंडनपुमिच्छं / एगिदिथावराराव-" इति गाथया प्रागेवापनीतत्वान्न कश्चित्सङ्ख्याविशेष इह / इति गाथार्थः // 19 // अथ सनत्कुमारादिसहस्रारान्तदेवा रत्नप्रभादिपृथिवीत्रयनारकाश्च बन्धमाश्रित्य समा इति गाथायाः प्रथमार्द्धन, तथा पश्चिमार्द्धनानतादिवेयकान्तदेवानां सामान्यबन्धं दर्शयन्नाह रयणा नारयसरिसा, सहसारंता सणंकुमाराई / इगिथावरायवतिरितिगुजोऊणं तु आणयाईया ॥२०॥गीतिरियम् / / (हारि०) व्याख्या-'श्यणा' इति सूचकत्वात्सूत्रमिति न्यायात्पदावयवे पदसमुदायोपचाराद्वा रत्नप्रभोच्यते / उपलक्षणं चैतत् प्रथमपृथिवीत्रयस्य / ततश्च रत्नप्रभाया नारका रत्नप्रभानारकास्तैः सदृशाः समाः रत्नप्रभानारकसदृशाः' / क एते ? सनत्कुमाराद्याः सहस्रा. रान्ता देवा इति गम्यते / तद्यथा-सामान्येनैकाग्रशतं 101, मिथ्यादृशां शतं 100, सासादनानां षण्णवतिः 96, मिश्राणां सप्ततिः 70, अयतानां द्विसप्तति 72 रिति / 'इगि' इत्यादि, एकेन्द्रियजातिस्थावरनामातपनामतिर्यत्रिकोद्योतोनं तु चतुरग्रशतं सप्तनवतिर्भवति, तामानताद्या ग्रैवेयकनवकान्ता देवा इति गम्यते, सामान्येन 97 बध्नन्ति / इति गाथार्थः // 20 // एवमानतादिसामान्यबन्धं प्रतिपाद्य साम्प्रतं तमेव गुणस्थानकविशिष्टं निरूपयन्नाह तित्थं 'नपुचउतिरितियउज्जोऊण पणवीस सनराउं / मोत्तण मिच्छमाई, नराउतित्थेहि अजया उ // 21 // (हारि०) व्याख्या-अस्या भावार्थोऽयम्-पूर्वोक्तसप्तनवतेमध्यात्तीर्थकर मुक्त्वेति संवन्धः / एवमुत्तरत्रापि शेषां षण्णवतिं 66 मिथ्यादृशो बध्नन्ति / तथा षण्णवतेमध्यात् 'नपुसकचतुष्क' सेवार्तसंहननहुण्डसंस्थाननपुसकवेदमिथ्यात्वलक्षणं मुक्त्वा शेषां द्विनवति 92 सासादना बध्नन्ति, तथा द्विनवतेमध्यात्तिर्यत्रिकोद्योतोनां पञ्चविंशति' एकविंशतिमित्यर्थः, किंविशिष्टाम् ? 'सनरायुषं' नरायुयुक्ता द्वाविंशतिमित्यर्थः, 'मुक्त्वा त्यक्त्वा शेषां मिश्राः सप्ततिं 70 बध्नन्ति / तथा सप्ततिं च नरायुस्तीर्थकराभ्यां सहाविरता बध्नन्ति 72 / तुशब्दाद्विशेषा. 1 “नपुसचउ" इत्यपि पाठः / 2 "पणुवीससनराओ / मुत्तूण” इत्यपि पाठः /