________________ देवगतिभेदेषु बन्धस्वामित्वम् [ 137 (हारि०) व्याख्या-तच्च चतुरग्रशतं तीर्थकरनामोनं 103 मिथ्यादृशो देवा बध्नन्ति इति प्राक्तनेन संबन्धः / एवमुत्तरत्रापि / छेदस्पृष्टसंहननहुण्डसंस्थाननपुसकवेदमिथ्यात्वमिति द्वन्द्व - कवद्भावः। तथैकेन्द्रियजातिस्थावरनामातपनामप्रकृतीविहितद्वन्द्वसमासाः / एवमेताः सप्तापित्र्यधिकशतमध्यान्मुक्त्वा शेषां षण्णवति सासादनसम्यग्दृष्टिदेवा 96 बघ्नन्ति इति गाथार्थः // 16 // तथा ओघुत्तं पणुवीसं, नराउजुत्तं विवजिउं मीसा। बंधति सयरिमजया, तित्थनराऊहिं बिगसयरी // 17 // (हारि०) व्याख्या-ओधोक्तां पञ्चविंशति नरायुयुक्ता षण्णवतेमध्याद्विवर्ण्य शेषां सप्ततिं 'मिश्राः' सम्यम्मिथ्यादृष्टयो देवा बध्नन्ति 70 / एषा च सप्ततिस्तीर्थकरनामनरायुा सह द्विसप्ततिर्भवति, तां 72 अयता बध्नन्ति / इति गाथार्थः // 27|| . इति सामान्येन देवगतिबन्धः प्रतिपादितः, साम्प्रतं विशेषतो देवविशेषनामोच्चारणपूर्वक तमाह मिच्छाइअविरयंता, देवोघं तित्थहीण बंधति / भवणवणजोइदेवा, देवीओ चेव सव्वाओ // 18 // . (हारि०) व्याख्या-अत्र पदघटनैवं कार्या-भवनपतिव्यन्तरज्योतिष्कदेवाः सर्वे तद्देव्यश्चैव सर्वा मिथ्यागाद्या अविरतसम्यग्दृष्टिपर्यन्ता विभक्तिलोपात्तीर्थकरनामहीनं देवौघं चतुरग्रशतादिलक्षणं यथासंभवं बध्नन्तीति / तद्यथा-सामान्यतस्त्र्यधिकशतं 103, मिथ्यादृशोऽपि व्यधिक• शतं 103, सासादनाः षण्णवति 66, मिश्राः सप्ततिं 70, अविरता एकाधिकसप्ततिं 71 बघ्नन्ति / इति गाथार्थः // 18 // तथा . सहसार सामन्नदेवभंगो, सोहम्मीसाण मिच्छमाईणं / सहसारंता इगिथावरायवोणं सणंकुमाराई // 19 // गीतिरियम (हारि०) व्याख्या-'सामान्यदेवभङ्गका पूर्वोक्तश्चतुरग्रशतादिलक्षणः 104, कयोः ? विभक्तिलोपात्सौधर्मेशानयोः, केषाम् ? मकारोऽलाक्षणिकः, मिथ्यागादीनां भवतीति शेषः / , इह यद्यपि 'मिच्छमाईणं' इत्युक्तं तथाऽपि सामान्यमपि द्रष्टव्यम् / ततः सामान्येन चतुरग्रशतं 104, मिथ्यादृशां व्यग्रशतं 103, सासादनानां षण्णवतिः 96, मिश्राणां सप्ततिः 70, अविरतानां द्विसप्तति 72 रिति / 'सहसारंता' इत्यादियोजना त्वेवं कार्या-सनत्कुमा