________________ 134 ] बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे (हारि०) व्याख्या-'बोयकसायणा देस' इति द्वितीयकषायैरप्रत्याख्यानावरणैः क्रोधाद्यैश्चतुर्भिरूना-हीना द्वितीयकषायोनाः सप्ततिः प्रकृतयः पट्पष्टिर्भवति 66, ताः प्रकृतीदेंशविरता बध्नन्तीति / पर्याप्तकपञ्चेन्द्रियाणां तिर्यग्जातीनां बन्धोऽभिहितः / अथापर्याप्तानां तेषां तमाह-'अपज्जत्ता' इत्यादिगाथापादत्रयम् , एतस्य भावार्थ:-तिर्यग्गतिसत्कारसप्तदशोत्तरशतलक्षणादोघबन्धान्नारकसुरायुषी 'वक्रियषटकं च' क्रियशरीर 1 तदङ्गोपाङ्ग 2 नरकगति 3 नरकानुपूर्वी 4 देवगति 5 देवानुपूर्वी 6 लक्षणं मुक्त्वा शेषं शतं नवाग्रम् 109, तुशब्दस्य पुनरर्थस्येह संबन्धादपर्याप्तपञ्चेन्द्रियाः पुनस्तिर्यगजातयो बध्नन्ति / इति गाथार्थः // 12 // एवं तिर्यग्गतौ बन्धस्वामित्वमुक्तम् / साम्प्रतं नरगतावाद्यगुणस्थानकपञ्चके तदतिदिशन् शेषगुणस्थानकेषु तदेवाह-- तिरिया व नरा पयडी. बंधती मिच्छमाइया पंच। अजयाइ पंच तित्थं, अपमत्तनियट्टि आहारं॥१३॥ कम्मत्थयबंधसमो, पमत्तमाईण होइ बन्धो उ / अप्पज्जत्ता मणुया, तिरिया व सयं 'नवग्गं तु // 14 // (हारि०) व्याख्या सामान्येन नरा विंशत्युत्तरशतं बध्नन्तीति प्रक्रमः / मिथ्यागाद्याः पश्च तिर्यश्च इव प्रकृतीर्वघ्नन्तीति / अत्रैव विशेषमाह-'अजयाइ पंच तिथं' इति, अविरतसम्यग्दृष्टयाद्या निवृत्तिबादरान्ताः पञ्च तीर्थकरनाम बध्नन्ति / तथा 'अपमत्तनियष्टि आहारं' इति, अप्रमत्तनिवृत्तिवादराः सप्तमाष्टमगुणस्थानवर्तिनो यतयो द्विकशब्दाध्याहारादाहारकद्विकं वध्नन्तीति / / 13 / / तथा-कर्मस्तवबन्धसमः, मकारस्यालाक्षणिकत्वात् प्रमत्तादीनां पुनर्मनुष्याणां भवति बन्धः / तुशब्दः पुनरर्थः प्रागेव योजित इति, अस्याः सार्द्धगाथायाः सामान्येन चतुर्दशगुणस्थानकेषु च नरबन्धमधिकृत्यैवं सशब्दसंस्कारातः स्थापना-तत्र सामान्येन विंशत्यधिकशतं 120, मिथ्यादृशां सप्तदशोत्तरशतं 117, सासादनानामेकोत्तरशतं 101, मिश्राणामेकोनसप्ततिः 69, अविरतसम्यग्दृष्टीनामेकसप्ततिः 71, देशविरताना सप्तपष्टिः 67, प्रमत्तानां त्रिषष्टिः 63, अप्रमत्तानामेकोनषष्टिः 59, निवृत्तिबादराणामष्टपश्चाशत् 58 षट्पञ्चाशत् 56 पड्विशतिश्चेति 26 विभागत्रयम् , अनिवृत्तिवादराणां द्वाविंशतिः 22 एकविंशतिः 21 विंशतिः 20 एकोनविंशतिः 19 अष्टादश 18 चेति पञ्च विभागाः, सूक्ष्मसम्परायाणां सप्तदश 17, उपशान्तमोह 1 क्षीणमोह 1 सयोगिनां 1 प्रत्येकमेकैव अयोगिनां बन्धो नास्ति / इति "कम्मत्थयबंधसमो, पमत्तमाईण होइ पंधो उ" इत्युक्तम् / तत्र कर्मस्तवग्रन्थे 1 "नवन्महियं” इत्यपि पाठः / 2 एकान्नवि० जे० /