________________ यार्थः // 9 // नरकगतिभेदेषु तिर्यग्गतौ च बन्धस्वामित्वम् ( 133 नगुणस्थानके च नरगतिनरानुपूर्वीद्वयं बध्यते, तस्यान्यदाऽपि बन्धात् / अयमर्थः-नरगति नरानुपूयॉर्नरायुषा सह नावश्यं प्रतिबन्धः, यदुत यत्रायुर्वध्यते तत्रैव गत्यानुपूर्वीद्वयमपि, किन्तु आयुरेकदेव बध्यते, गत्यानुपूर्वीद्वयमन्यदाऽपि बध्यत इति / तथा मिथ्यात्व'सासादनाभ्यां द्वयं न बध्यते, कलुषाध्यवसायत्वादिति / अथ कथमत्राविरतगुणस्थानके बन्धस्वामित्वं पृथगू नोक्तम् ?, सत्यं, मिश्रस्येवाविरतस्यापि सप्तति श्या, न्यूनाधिकप्रकृतेरभावात् / इति गाथाद____एवं नरकगतौ बन्धस्वामित्वमभिधायाथ तिर्यग्गतो सामान्येन गुणस्थानकविशिष्टं च तदाह तित्थाहारदुगुणा, तिरिया बंधति सव्वपयडीओ। पजत्ता तह मिच्छा, 'साणा उण सोलसविहीणा // 10 // __ (हारि०) व्याख्या-तीर्थकराहारकद्विकोनाः सर्वप्रकृतीः पर्याप्तास्तिर्यश्चः प्रक्रमात्सामान्येन बध्नन्तीति 117 / अत्र च तिरश्चा सत्यपि सम्यक्त्वे भवप्रत्ययादेव तथाविधाध्यवसायाभावात्तीर्थकरनाम्नः संपूर्णसंयमाभावादाहारकद्विकस्य च बन्धो नास्तीति हृदयम् / 'तह मिच्छा' इति तथा मिथ्यादृशोऽपि पर्याप्ता इति योगः। सप्तदशोत्तरशतसंख्याः 117 प्रकृतीर्वघ्नन्ति / 'साणा उण' इति सासादनाः पुनः षोडशेन पूर्वोक्तेन विहीनाः षोडशविहीनाः 101 ता बध्नन्ति / इति गाथार्थः॥१०॥ तथा नरतिगसुराउउसभं, उरलदुगं "मोत्तु पण्णवीसं च / .... ... अणुहत्तरितु मीसा, सुराउणा सत्तरी सम्मा॥११॥ (हारि०) व्याख्या-'नरतिग' इति, नरगतिनरानुपूर्वीनरायुत्रिकं सुरायुः 'उसभं' इति, वज्रर्षभनाराचं, एषां समाहारद्वन्द्वस्तत् / 'उरलदुर्ग' इति औदारिकशरीरतदङ्गोपाङ्गद्विकमिति सप्तप्रकृतीः पञ्चविंशतिं च प्रागुक्ता मुक्त्वा एकोत्तरशतमध्यादिति शेषः / शेषामेकोनसप्तति मिश्रा बध्नन्ति 69 / एषैव सुरायुषा सहिता सप्ततिर्भवति 70, ता 'सम्मा' इति, अविरतसम्यग्दृष्टयो बध्नन्ति / इति गाथार्थः // 11 // "बीयकसायूणा देस अपजत्ता सयं नवग्गं तु / मोत्त णमोघबन्धा, निरसुरआउं विउविछक्कं च // 12 // गीतिरियम .1 "सासादनयोः तवयं” इत्यपि / 2 "सासा उण सोलसविहूणा" इत्यपि। 3 "मुत्त" इत्यपि पाठ। 4 “बीयकसायविहूणा देसअपजत्तसयनवग्गं तु मुत्तूण" / इत्यपि पाठः / तथा