________________ 132 ] बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे नरायुःपञ्चविंशत्यूना सती सप्ततिर्भवति, ता मिश्रा बध्नन्ति 70 इति / एतां च सप्तति नरायुस्तीर्थकरनामयुतां सम्यग्दृष्टयो बध्नन्ति 72 इति / अयं च बन्धो रत्नप्रभाशर्कराप्रभावालुकाप्रभाभिधानप्रथमनरकपृथिवीत्रये द्रष्टव्यः, पङ्कप्रभादिषु विशेषवन्धाभिधानात् / इति गाथार्थः // 7 // ____ अथ तमेव पङ्कप्रभादिनरकपृथिवीत्रये गाथाप्रथमपादेन तथा सप्तमनरकपृथिव्यां पादोनगाथाद्वयेनाह पंकाइसु तित्थोणं, नराउहीणं सयं तु सत्तमिए / मणुदुगउच्नेहि विणा, मिच्छा बंधंति 'छण्णउइं // 8 // हुंडाईचउरहिये, साणा तिरियाउणा य 'इगनउई। इगुणपणुवीसरहिया, सनरदुगुच्चा सयरि मीसे // 9 // __ (हारि०) व्याख्या-सामान्यं गुणस्थानचतुष्टयवर्ति च प्राक्तनप्रथमनरकपृथिवीत्रयोक्तं बन्धकदम्बकं यथासंभवं तीर्थकरनामोनं 'पंकाइसु' इति, पङ्कप्रभाधूमप्रभातमःप्रभासु मन्तव्यमिति शेषः / अत्र पृथिवीत्रये तीर्थकरनामनिमित्तसम्यक्त्वसद्भावेऽपि क्षेत्रमाहात्म्येन तथाविधाध्यवसायाभावात्तीर्थकरनामकर्मबन्धो नास्तीति / ततः सामान्येन शतं 100, मिथ्यादृशां च शतं १००,सासादनानां षण्णवतिः 96, मिश्राणां सप्ततिः 70, अविरतसम्यग्दष्टीनामेकसप्ततिः 71, इति / इह तु सामान्यपदेऽविरतगुणस्थानके च तीर्थकरनामहीनतोक्ता, मिथ्यादृष्ट्रयादिषु त्रिषु पुनस्तस्य प्रागेवापनीतत्वादिति भावः / 'नराउ होणं सयं तु सत्तमिए' इत्यादि पङ्कप्रभादिनरकृपृथिवीत्रये सामान्येन यच्छतमुक्तं तदेव नरायुष्कहीनं पुनः सप्तम्यामोघबन्धः 99 / तुशब्दः पुनः योजित एवेति / अथ तस्यामेव गुणस्थानकेषु तन्निरूपयन्नाह-मणदुग' इत्यादि मनुष्यगतिमनुष्यानुपूर्वीद्विकोच्चैोविना षण्णवतिर्भवति, ता मिथ्यादृशो बध्नन्ति 96 / इति // 8|| अथ द्वितीयगाथा व्याख्यायते-'हुंडाईचउरहियं' इति, हुण्डसंस्थानच्छेदस्पृष्टसंहनननपुंसकवेदमिथ्यात्वचतुष्करहितम् तथा 'तिरियाउणा य' इति, तिर्यगायुषा च रहितां तां पण्णवतिं कृत्वेति शेषः, चशब्दादहितशब्दः प्राक् समस्तोऽप्यत्र योज्यते / तत एकनवतिं 91 सासादना बदन्तीति प्राक्तनेन संबन्धः / तथा 'इगुणपणुवीसरहिया' इति, एकेन तिर्यगायुषाऽनन्तरापनीतेनोना रहितकोना सा चासौ पञ्चविंशतिश्च पूर्वोक्ता तया रहिता न्यूना एकोनपञ्चविंशतिरहिता / तथा 'सनरदुगुच्चा' इति, सह नरद्विकोच्चैवर्तते सनरद्विकोचा, नरगतिनरानुपूर्तीद्विकोच्चैर्गोत्रैः सहितेत्यर्थः / "यका एकनवतिः / सा सप्ततिर्भवति, सा च मिश्रे 70 / इह सप्तम्यां नरायुस्तावन्न बध्यत एव / तद्वन्धाभावेऽपि मिश्रगुणस्थानकेऽविर 1 "छन्नउई" इत्यपि पाठः / 2 "इगनउई” इत्यपि पाठः / 3 "पुनरर्थे” इत्यपि, “पुनरर्थो" इत्यपि / 4 "यका" इति स्वार्थिकप्रत्ययान्तं रूपम् , "या" इत्यर्थः /