________________ प्रथम-द्वितीयगुणस्थानयोरुकिछद्यमानप्रकृतयस्तथा नरकगतौ बन्धस्वामित्वम् / 131 'मझिमसंठाणसंघयणा' इति, मध्यमसंस्थानानि चत्वारि न्यग्रोधपरिमण्डलं 18 सादि 16 वामनं 20 कुब्ज 21 चेति, संहननानि चत्वारि ऋषभनाराचं 22 नाराचं 23 अर्द्धनाराचं 24 कीलिका 25 चेति पञ्चविंशतिप्रकृतयः / आसां सासादनगुणस्थाने बन्धमाश्रित्य व्यवच्छेद इति शेषः / सासादनगुणस्थानकस्वरूपं त्विदम् "उचसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स सासायणस तं तयंतरालम्मि छावलियं // 1 // " इति गाथाद्वयार्थः // 5 // ___ व्याख्यातं वक्ष्यमाणार्थोपयोगि गाथाद्वयम् / अथ प्रस्तुतमभिधीयते, तत्र मार्गणास्थानाना प्रथमं गतिद्वारमाश्रित्य नरकगतावोघबन्धः प्रतिपाद्यते थावरचउजाई चउ, विउवाहारदुग सुरनिरतिगाणि / .. आयवजुयाऽऽहिँ ऊणं, एगहियसयं नरयबंधे // 6 // (हारि०) व्याख्या-थावरचउ' इति, स्थावरनाम 1 सूक्ष्मनाम 2 साधारणनाम 3 अपर्याप्तनामेति 4 चत्वारि 'जाई चउ' इति, एक 5 द्वि 6 त्रि 7 चतुरिन्द्रिय 8 जातयश्चतस्रः, 'विउवाहारदुग' इति, द्विकशब्दस्य प्रत्येकमभिसंबन्धाद्वैक्रियशरीर 9 तदङ्गोपाङ्गद्विकम् 10, आहारकशरीर 11 तदङ्गोपाङ्गद्विकम् 12, 'सुरनिरतिगाणि' इति, त्रिकशब्दस्य प्रत्येकमभिसंबन्धात् सुरगति 11 सुरानुपूर्वी 14 सुरायुष्कत्रिकम् , 15, नरकगति ६नरकानुपूर्वी 17 नरकायुष्कत्रिकम् 18 एषां तत्पुरुषगर्भो द्वन्द्वः / तानि किविशिष्टानि ? इत्याह-'आयवजुय' इति, विभक्तिलोपादातपनाम 19 युतानि कर्माणीति शेषः / 'आहिँ ऊणं' इति लिङ्गव्यत्ययेनैभिरूनमेकाधिकशतं नरकबन्धे / अयमत्राभिप्रायः-एकोनविंशतिं कर्मप्रकृतीबंन्धाधिकृतकर्मप्रकृतिविंशत्युत्तरशतमध्यान्मुक्त्वा ततः शेषस्यैकोत्तरशतस्य 101 नरकगतावोघबन्धः / 'आयवजुयाणि मोत्तु" इति पाठेऽयमर्थः-प्राक्तनकर्माणि आतपयुतानि मुक्त्वा , शेषं तथैव / इति गाथार्थः // 6 // ___ इति सामान्येन नरकगतौ बन्धमभिधाय साम्प्रतं तस्यामेव मिथ्यादृष्टयादिगुणस्थानकचतुष्टयविशिष्टं तं प्रतिपिपादयिषुराह तित्थोणं सय मिच्छा, साणा नपुहुड'छेयमिच्छोणं / मीसा नराउपणुवीसोणं सम्मा नराउतित्थजुयं // 7 // तिरियम (हारि०) व्याख्या-अत्र साध्याहारा योजना / ततः प्रागुक्तमेकोत्तरशतं, 'तित्थोणं' इति, तीर्थकरनामोनं शतं भवति तन्मिथ्यादृष्टो बध्नन्ति 100 / एतच्च शतं नपुंसकवेद 1 हुण्डसंस्थान 2 छेदस्पृष्टसंहनन 3 मिथ्यात्वो 4 नं सत् षण्णवतिर्भवति, एतां सासादना बध्नन्ति 96 / एषा च षण्णवतिः, नरायुश्च प्रागुक्तपश्चविंशतीश्च, नरायुःपञ्चविंशती, ताभ्यामूना 1 “छेव०" इत्यपि पाठः।