________________ 130 ] बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे व्वाहारोरालियाण सग 3 तेय 3 कम्म 3 जुत्ताणं / नव बंधणाणि इयरदुसहियाणं तिणि 3 तेसिं च 3 // 19 // ' अस्या अयमर्थः-पूर्वगृहीतवैक्रियपुद्गलैः सह परस्परं गृह्यमाणान् वैक्रियपुद्गलानुदितेन येन कर्मणा बनात्यात्मा तद्वै क्रियवैक्रियवन्धनम् 1 / एवं वैक्रियतेजसं 2 वैक्रियकार्मणं 3 / आहारकाहारक 4 आहारकतैजस 5 आहारककार्मण 6 औदारिकौदारिक 7 औदारिकतैजस 8 औदारिककार्मण ह वैक्रियतैजसकार्मण 10 आहारकतैजसकार्मण 11 औदारिकतैजसकार्मण 12 तेसिं च' इति, तयोस्तैजसकार्मणयोः तैजसतैजस 13 तैजसकार्मण 14 कार्मणकार्मण 15 बन्धनानि / इति पञ्चदश बन्धनानि / वर्णादिविंशतः शुभाशुभविभागोऽयम्-'नीलकसिणं दुगंधं, तित्तं कडुयं गुरुं खरं रुक्खं / सोयं च असुभनवगं, इक्कारसगं सुहं सेसं" इति प्ररूपिताः प्रकृतयः / आसां व्याख्यानं ग्रन्थान्तरादवसेयम् , गमनिकामात्रत्वात् प्रस्तुतप्रयासस्येति // अथ वक्ष्यमाणार्थोपयोगि मिथ्यादृष्टि सास्वादनगुणस्थानकव्यवच्छिन्नप्रकृति ख्यासूचक गाथाद्वयमाह निरयतिगं मिच्छत्तं, नपुस इगविगलजाइआयावं / 'छेवट्ठ थावरचऊ, हुड चिय मिच्छदिट्ठिम्मि // 4 // थीणतिगित्थी अण तिरितिग 'कुविहगई यं नीयमुजोयं / 'दूभगतिग पणुवीसा, मज्झिमसंठाणसंघयणा // 5 // ___ (हारि०) व्याख्या-'निरयतिगं' इति, नरकत्रिकं नरकगति 1 नरकानुपूर्वी 2 नरकायु 3 लक्षणम् , मिथ्यात्वं 4 नपुंसकवेदः 5, 'इगविगलजाइ' इति, एकेन्द्रियजातिः 6, द्वि 7 त्रि 8 चतुरिन्द्रिय ह जातयश्च, आतपनाम 10 सेवार्तसंहननम् 11, 'थावरचऊ' इति, स्थावरनाम 12 सूक्ष्मनाम 13 साधारणनाम 14 अपर्याप्तनाम 15 लक्षणं थावरचतुष्कम् , हुण्डसंस्थानं 16 चेति प्रकृतिषोडशकं मिथ्यादृष्टिगुणस्थानके बन्धं प्रतीत्य व्यवच्छिन्नमिति // 4|| साम्प्रतं द्वितीयगाथा व्याख्यायते-'थोणतिगित्थी' इति, स्त्यानचित्रिकं स्त्यानर्द्धि 1 निद्रानिद्रा 2 प्रचलाप्रचला 3 लक्षणम् , स्त्रीवेदः 4 'अण' इति, अनन्तानुबन्धि-क्रोध 5 मान 6 माया 7 . लोभाः 8, 'तिरितिग' इति, तिर्यकत्रिकं तिर्यग्गति 9 तिर्यगानुपूर्वी 10 तिर्यगायु 11 लक्षणम् , 'कुविहगई य' इति, अशुभविहायोगतिश्च 12, नी.ोत्रं 13 उद्योतनाम 14, 'दूभगतिग' इति, दुर्भगत्रिकं दुर्भगनाम 15 अनादेयनाम 16 दुःस्वरनाम 17 रूपम् , 1" 'तेसि च' इति, तयोस्तैजसकार्मणयोः" इति पाठो न दृश्यते जे० प्रतौ / 2 केषुचित्पुस्तकेषु"सासादन०" इत्यपि पाठः / 3 "इगि०" इत्यपि पाठः 4 “सेघदुः” इति जे० प्रतौ / 5 “कुविहगगई" इत्यपि पाठः। ६“दुभगतिगं" इत्यपि पाठः / 7 "प्रति व्यवच्छिन्नमिति" इत्यपि पाठः / /