________________ // ॐ ही अह श्री शंखेश्वरपार्श्वनाथाय नमः / / || न्यायाम्भोनिधि-प्रतिभाप्रतिकृति-श्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः // || सकलागमरहस्यवेदिश्रीमदाचार्यविजयदानसूरीश्वरेभ्यो नमः || || कर्मसाहित्यनिष्णातश्रीमदाचार्यविजयप्रेमसूरीश्वरेभ्यो नमः // बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः / श्रीमद्धरिभद्रसूरि विर चितव्याख्ययोपेतः / गत्यादिमार्गणास्थान-बन्धस्वामित्वदेशकम् / नत्वा वीरं जिनं वक्ष्ये, बन्धस्वामित्ववृत्तिकाम् // 1 // इह स्वपरोपकाराय यथार्थाभिधानं बन्धस्वामित्वप्रकरणमारिप्सुराचार्यो मङ्गलादिप्रतिपादकं गाथासूत्रमिदमाह नमिऊण वद्धमाणं, 'गइयाईठाणदेसय सिद्ध। गइयाइएसु 'वोच्छं, बंधस्सामित्तमोघेणं // 1 // .. (हारि०) व्याख्या-इह प्रथमार्द्धन मङ्गलं द्वितीयार्द्धनाभिधेयं साक्षादुक्तम् / प्रयोजनसंबन्धी तु सामर्थ्यगम्यौ, इति गाथासमुदायार्थः / अवयवार्थस्त्वयम्-'वक्ष्ये अभिधास्ये, किं तद् ? 'बन्ध. स्वामित्वं'मिथ्यात्वादिभिर्बन्धहेतुभिः कर्मपरमाणूनां जीवप्रदेशैः सह संबन्धो बन्धस्तस्य स्वामित्वमाधिपत्यं बन्धस्वामित्वं, जीवानामिति गम्यते / केषु ? 'गइयाइएसु' इति गत्यादिमागंणास्थानेषु, केन ? 'ओघेन' सामान्येन, किं कृत्वा ? 'नत्वा' प्रणम्य, कम् ? 'वर्द्धमानं' स्वकुलसमृद्धिवृद्धिकारकत्वेन पितृभ्यां व्यवस्थापितैवंविधनामकं चरमतीर्थाधिपति, शेषजिनत्यागेन च वर्द्धमानग्रहणं वर्तमानतीर्थाधिपतित्वेन परमोपकारित्वात् / कीदृशम् 1 गतिरादिर्येषां तानि गत्या. दीनि तानि च तानि स्थानानि च गत्यादिस्थानानि तेषां देशकः प्रतिपादको गत्यादिस्थानदेशकस्तम् तथा सितं बद्धं ध्मातं भस्मसात्कृतमष्टप्रकारं कर्म येन स सिद्धस्तम् / इति गाथार्थः // 1 // गत्यादीन्येवाह गइ इंदिए य काए, जोए वेए कसाय नाणे य / संजम दंसण लेसा, भव सम्मे सण्णि आहारे // 2 // 1 "गइयाइट्ठा०" इत्यपि पाठः / 2 “बुच्छे” इत्यपि।