SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 128 ] बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे (हारि०)व्याख्या-तत्र 'गतयो' नरकगत्याद्याश्चतस्रः। 'इन्द्रियाणि' स्पर्शनादीनि पञ्च। 'कायाः पृथिव्यादयः षट् / 'योगाः' सत्यमनःप्रभृतयः पञ्चदश / 'वेदाः' स्रीवेदादयस्त्रयः। 'कषायाः क्रोधादयश्चत्वारः 'ज्ञानानि' मतिज्ञानादीनि पश्च / इहोपलक्षणत्वेन विपक्षस्यापि संग्रहादज्ञानान्यपि मत्यज्ञानादीनि त्रीणि ग्राह्याणि / एवमुत्तरत्रापि क्वाप्युपलक्षणव्याख्यानं द्रष्टव्यम् / ननु ज्ञाने प्रस्तुते उपलक्षणत्वेन किमर्थमज्ञानत्रयग्रहणं कृतम् ?, सत्यं, सौम्य ! चतुर्दशमार्गणास्थानेषु प्रत्येकं सर्वसांसारिकसत्त्वसंग्रहार्थम् / तथा 'संयमः' सामायिकादिः पश्चप्रकारः / उपलक्षणत्वादेशसंयमासंयमौ च, इत्येते सप्तात्रापि ग्राह्याः / 'दर्शनानि' चक्षुदर्शनादीनि चत्वारि / 'लक्ष्याः' कृष्णलेश्याद्याः षट् / भवपदेन भव्याभव्यौ द्वौ ग्राह्यौ / 'सम्यक्त्वानि' वेदकादीनि त्रीणि / संज्ञिपदेन संश्यसंज्ञिनौ द्वौ / आहारकपदेन आहारकानाहारको द्वौ गृहीतौ / इति द्वारगाथासमासार्थः // 2 // ___ इह यद्यपि गत्यादिषु बन्धस्वामित्वं वक्ष्यामीति प्रागुक्तं तथाऽपि न तद्गुणस्थानकनिरपेक्षं वक्ष्यते / गुणस्थानकानामपि बन्धस्वामित्ववद्गत्याद्याश्रितत्वादिति गुणस्थानकानि / तथा गत्याद्याश्रितत्वेनैव सुरनिरयनरतिरश्चां पर्याप्तापर्याप्तकजीवस्थानयोरपि बन्धस्वामित्वस्य वक्ष्यमाणत्वादिति जीवस्थानानि च गतिषु दर्शयन्नाह गुणठाणा सुरनिरए. चउ पण 'तिरिएसु चउदस नरेसु। जीवट्ठाणा तिरिए, चउदस सेसेसु 'दुग दुगं जाण // 3 // गीतिरियम (हारि०) व्याख्या-इह यथासंभवं सर्वत्र लिङ्गव्यत्ययविभक्तिलोपादिकं प्राकृतत्वादृष्टव्यम् / ततश्च गुणस्थानकानि-"मिच्छ दिठी सासा-यणे य तह सम्ममिच्छिदिट्ठी य / अविरयसम्मदिट्टो, विरयाविरए पमत्तं य // 1 // तत्तो य अप्पमत्ते, नियष्टि अनि. यटिघायरे सुहुमे / उवसंतग्वीणमोहे, होइ सजीगी अजोगो य // 2 // " इति नामकानि / एतानि च क कियन्ति भवन्ति ? इत्याह-सुरनारकयोश्चत्वारि प्रत्येकमाद्यानि जानीहि, इति संबन्धः / तथा पञ्च तिर्यक्षु आधान्येव / तथा चतुर्दश नरेषु / इति योजितानि चतसृष्वपि गतिषु गुणस्थानकानि, सम्प्रति तास्वेव जीवस्थानानि योजयन्नाह-जीवस्थानानि"मुहुमा बायरं बेइं-दिया य तेइंदिया य चउरिंदी / अस्सण्णी सण्णी वलु, चउदस पजत्त अपजत्ता // 1 // " इत्येवंरूपाणि / एतानि च केषु कियन्ति भवन्ति ? इत्याह तिर्यक्ष चतुर्दश / 'शेषेषु' सुरनरनारकेषु द्विकं द्विकं जीवस्थानयोरिति शेषः / पर्याप्तापर्याप्तकसंज्ञिपञ्चेन्द्रियलक्षणं 'जानीहि अवबुध्यस्वेति / ननु संमूर्छनजापर्याप्तलक्षणं नरेषु तृतीयमपि जीवस्थानकगस्ति तत्कथमत्र न गृहीतम् ?, इत्यत्रोच्यते-तिर्यग्रहणेन तेषां ग्रहणादिति न दोषः / इति गाथार्थः // 3 // 1 'तिरिए चउद्दस नरेसु" इत्यपि पाठः / 2 “जाण दुर्ग" (?) इत्यपि पाठः /
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy