________________ 126 / कर्मस्तवाख्यस्य द्वितीयस्य कर्मग्रन्थस्य समाप्तिः एवेति युक्तस्तासां चरमसमये व्यवछेदः / आनुपूर्वीनाम्नां चतुर्णामपि क्षेत्रविपाकित्वाद्भवान्तरापान्तरालगतावेवोदयस्तेन भवस्थस्य नास्ति तदुदयः / तदभावाच्चायोगिद्विचरमसमये मनुजानुपू aa अपि सत्ताव्यवच्छेदः / ततश्च तन्मतेनोल्लिङ्गनगाथादावेवं पाठो द्रष्टव्यः-'तेवत्तरिं दुचरिमे पारसचरमे अजोगिणो वीणे" इति / तथा-"अणएजनिमिणमणुयाणपुट्विपज. तय च नीयं च" / तथा-"मणुयाऊ मणुयगइ य षोडव्वा' / तथा-"एया पारस पयडी अजोगिचरिमंमि वोच्छिन्ना" इति / तथा चेहाप्युदयाधिकारे द्वादशानामयोगिन्युदय उक्तः 'पारस उदये अजोगंता' // 53 // 54 // // इति सत्ताधिकारः // तदेवं भगवता क्रमेण गुणस्थानान्यारोहता संपादितं कर्मप्रकृतिबन्धोदयोदीरणासत्ताव्यबच्छेदाख्यं गुणमभिष्टुत्य स्तवकारः सर्वकर्मबन्धादिव्यवच्छेदोद्भवं भगवतो निरतिशयं गुणं दर्शयन्नात्मनः प्रशस्ताध्यवसायप्रवृत्तिहेतु प्रार्थनाविशेषमाह सो मे तिहयणमहिओ, सिद्धो बुद्धो निरंजणो निच्चो। दिसउ वरनाण'लभं, दंसणसुद्धिं समाहिं च // 55 // // कर्मस्तवः समाप्तः // 'सः' भगवानेवमात्मनः संपादितगुणातिशयः 'मे' मह्य दिशतु ज्ञानलाभादिकमिति संबन्धः / त्रिभुवनेन देवमनुजासुरलोकत्रयलक्षणेन महितः पूजितः, 'सिद्धः' निष्ठिताशेषप्रयोजनः, 'बुद्ध' समस्तवस्तुविषयकेवलबोधभाक् , 'निरञ्जनः' निर्गताशेषक्लिष्टकर्मम्रक्षणः, 'नित्यः' ध्रुवः साद्यनिधनं कालं तत्पर्यायापरित्यागी 'दिशतु' ददातु वरमुत्तमं ज्ञानं सम्यग्ज्ञानरूपं मतिज्ञानादिकेवलज्ञानान्तं तस्य लाभमप्राप्तप्राप्तिलक्षणम् , तथा दर्शनं सम्यक्त्वं तस्य शुद्धि दर्शनमोहनीयकर्मापगमकृतं वैमल्यम् , तथा 'समाधि' चारित्रविशुद्धात्मकमिति // 55 // स्मृत्यनुसारेण मया, यद्गदितमिहोनमधिकमागमतः। तत्क्षन्तव्यं श्रुतशु-द्धबुद्धिभिः शोधनीयं च।१।। इति श्वेतपटाचार्य-गोविन्दगणिना कृता / कर्मस्तवस्य टीकेयं, देवनागगुरोगिरा // 2 // अनुष्टुप्छन्दसा प्रायः, संकलय्यानुवर्णितम् / सहस्रमेकं श्लोकानां, नवत्युत्तरमेव च // 3 // // इति श्वेतपटाचार्यश्रीमद्गोविन्दगणिकृता कर्मस्तवटीका समाप्ता / / 1 "लाभं” इत्यपि पाटः / 2 “सर्व, सुबु-" इत्यपि / 3 “य श्रीगोविन्देन निमिता" इत्यपि पाठः / / * समाप्तोऽयं सटीकः कर्मस्तवाख्यो द्वितीयः कमग्रन्थः .