________________ सत्तामाश्रित्य गुणस्थानकेच्छिद्यमानाः प्रकृतयः [ 129 अगुरुयलहुयच उक्कं विहायगइदुग थिराथिरं चेव / 'सुहसुस्सरजुयलावि य, पत्तेय दूभगं अजसं // 51 // अणएज्जं निमिणं चिय, अपजत्तं तह य नीयगोय च / 'अन्नयरवेयणियौं अजोगिदुचरमंमि वोच्छिण्णा // 52 // गाथाचतुष्टयम् // देवगतिर्देवानुपूर्वी / पञ्च शरीराण्यौदारिकादीनि / पञ्चशरीरस्यौदारिकादेर्वन्धनान्यौदारिकबन्धनादीनि / पञ्च संघातनामान्यौदारिकसङ्घातादीनि / संस्थानषट्कं षट्प्रकारं समचतुरस्रादि / त्रीण्यङ्गोपाङ्गनामान्यौदारिकाङ्गोपाङ्गादीनि / संहननषट्कं षट्प्रकार वर्षभनाराचादि / 'पंचेव य वण्णरसा' इति, पञ्च वर्णनामानि कृष्णादीनि, पञ्चरसनामानि तिक्तादीनि / द्वगन्धनामनी सुरभि असुरभि च / अष्टौ स्पर्शनामानि कर्कशादीनि / 'अगुरुयलहुयच उक्क' इति, अगुरुलघुपधातपराधातोच्छ्वासाख्यं चतुष्कम् / 'विहायगइदुग' इति, प्रशस्तविहायोगतिरप्रशस्तविहायोगतिः, इत्येतद्द्वकं स्थिरमस्थिरं 'सुहसुस्सरजुयलावि य' इति, शुभमशुभं सुस्वरं दुःस्वरमिति / प्रत्येकं दुर्भगमयशःकीतिरनादेयं निर्माणमपर्याप्त नीचैगोत्रमन्यतरवेदनीयमनुदयावस्थं सातमसातं वा / इत्येता द्वासप्ततिः प्रकृतयः सत्तामधिकृत्यायो. गिद्विचरमसमये व्यवच्छिन्नाः / सर्वा अपि ह्य ता अनुदयावस्थाः। ततश्च यद्यपि रायोगिना योगनिरोधं कुर्वता सर्वासामवातिप्रकृतीनां कालतः समैव गुणश्रेणिरुपरचिता तथाऽप्यनुदयावस्थप्रकृतीनां चरमसमये दलिकमुदयवतीपु स्तियुकसंक्रमेण संक्रान्तत्वात् आत्मानुभावतो नास्ति / तेन द्विचरमसमये तत्सत्ताव्यवच्छेदः // 49 // 50 // 51 // 52 // - 'अन्नयरवेयणीय, मणुयाऊ मणुयदुवय बोद्धव्वा / पंचिंदियजाईवि य, तससुभगाएजपजत्तं // 53 // वायरजसकित्ती वि य, तित्थयरं उच्चगोयय चेव / एया तेरस पयडी, अजोगिचरिमंमि वोच्छिन्ना // 54 // // सत्ता सम्मत्ता // . गाथाद्वयम् // अन्यतरवेदनीयं सातमसातं वा, यदुदयावस्थं मनुष्यायुः, 'मणुयदुवय पोडव्वा'मनुजद्वितयं मनुजगतिः मनुष्यानुपूर्वी पञ्चेन्द्रियजातिः त्रसं सुभगं आदेयं पर्याप्त बादरं यशःकीर्तिस्तीर्थकरं उच्चैर्गोत्रम् , इत्येतास्त्रयोदश प्रकृतयोऽयोगिचरमसमये व्यवच्छिन्नाः सत्तामधिकृत्य / अपरेषां पुनराचार्याणां मतेन-मनुजानुपूर्व्या द्विचरमसमये सत्ताव्यवच्छेदः उदयाभावात् / उदयवतीनां हि द्वादशानां स्तिबुकसङ्कमाभावात्स्वानुभवे दलिकं चरमसमयेऽपि दृश्यत 1 "सुमसुस्सरजुगलदुगं पत्तेयं दूहगं” इत्यपि पाठः / 2 "नीयगुत्तं च” इत्यपि पाठः / 3 "अन्नयरं वेअणीवं अजोगिदुचरिमम्मि वोच्छिन्ना" इत्यपि पाठः / 4 "अन्नयरं" इत्यपि पाठः /