________________ 124 ] कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे साहारण सुहुमं 'चिय, सोलस पयडीओ होंति नायव्वा। बीयकसायचउक्कं तइयकसायच अठेव // 45 // .. साधारणं सूक्ष्मं, इत्येताः षोडश प्रकृतयः प्रागुद्दिष्टाः सत्ताव्यवच्छेदमधिकृत्य भवन्ति ज्ञातव्याः / तासां च क्षयानन्तरं शेषमष्टकं क्षपयति, तच्चेदं-द्वितीयकषायचतुष्कम् , तृतीयकषायाश्च चत्वार इति // 45 // एगनपुसगवेय, इत्थीवेयौं तहेव एगं च। तह नोकसायछक्कं पुरिसं कोहं च माणं च // 46 // ततश्चैको नपुसकवेदः सत्ता प्रतीत्य व्यवच्छिन्नो ज्ञातव्यः / ततः स्त्रीवेद एकः, ततः . 'नोकषायषटक' हास्यरत्यरतिशोकभयजुगुप्साख्यम् , ततः पुरुषवेदः, ततः संज्वलनः क्रोधः, ततः संज्वलनो मानः, सत्ताव्यवच्छेदमधिकृत्य ज्ञातव्यः // 46 // .. माय चिय अनियट्टी, भागं गंतूण संतवोच्छेओ। लोहं चिय संजलणं, 'सुहुमकसायमि वोच्छिन्ना // 47 // पूर्वार्द्धम् // मायायाश्च संज्वलनाया अनिवृत्त्यद्धाया भागं गत्वा सत्ताव्यवच्छेदः / अनिवृत्त्यद्धाभागं गत्वेत्येतद् पूर्वेष्वपि पोडशाष्टैकैकादिष्वपेक्षणीयम् / __ 'लोभं चिय' इत्यादिपश्चार्द्धम् / लोभस्य संज्वलनस्य सूक्ष्मकषाये सत्तामधिकृत्य व्यवच्छेदः // 47 // “खीणकसायदुचरिमे, 'निद्द पयलं च हणइ छउमत्थो। नाणंतरायदसगं देसणचत्तारि चरिमंमि // 48 // क्षीणकषायो द्विचरमे समये निद्रा प्रचलां च हन्ति, छद्मस्थः सनित्यतो द्विचरमसमये तयोः सत्ताव्यवच्छेदः / तथा ज्ञानावरणं पञ्चविधम् , अन्तरायं पञ्चविधम् , इत्येतद्दशकम् , दर्शनावरणानि चत्वारि, इत्येताश्चतुर्दश प्रकृतीः क्षीणकषायच्छद्मस्थश्चरमसमये हन्तीत्यतस्तत्र तासां व्यवच्छेदः // 4 // देवदुग पणसरीरं, पंचसरीरस्स बंधणं चेव / पंचेव य संघाया. संठाणा तह यछक्कं च // 49 // तिनि य अंगोवंगा. संघयणं तह य होइछक्कं च / पंचेव य "वण्णरसा, दो गंधा अट्ट फासा य॥५०॥ 1 "वि य" इत्यपि / 2 "हुति" इत्यपि / 3 "अटुंच" इत्यपि पाठः / 4 “कोहा य माणा य" इत्यपि पाठः। 5 "सुहुमसरागम्मि" इत्यपि पाठः। 6 "निद्दा पयला हणइ" इत्यपि पाठः। "वन्नरसा" इत्यपि पाठः।