________________ उदीरणां सत्ताञ्च प्रतीत्य गुणस्थानकेषु व्यवच्छिद्यमानाः प्रकृतयः / 123 शेषमपनीतस्य किं भवति ? एकोनचत्वारिंशत् प्रकृतयः, तासां सयोगिगुणस्थाने उदीरणा बोद्धव्या / अपनीय तिस्रः प्रकृतीः प्रमत्तयतेरुदये व्यवच्छिन्नस्य प्रकृतिपञ्चकस्य संबन्धिनि प्रक्षिप्ताः / सातासातमनुजायुषां हि प्रमादसहितेनैव योगेनोदीरणा भवति, नान्येन, इत्युत्तरेषु तदुदीरणाया अभावः // 41 // ____ततश्च किं भवति तह चेव अट्ठ पयडी, पमत्तविरए उदीरणा होइ। नस्थित्ति अजोगिजिणे, उदीरणा होइ नायब्वा // 42 // // उदीरणा सम्मत्ता // तथा चैवं सत्यष्टानां प्रकृतीनां प्रमत्तविरते व्यवच्छेदमधिकृत्योदीरणा भवति, अष्टानामुदीरणाव्यवच्छेदो भवतीत्यर्थः / नास्तीत्ययोगिजिने उदीरणा ज्ञातव्या भवति, योगाभावात् / उदीरणा हि योगविशेषरूपः करणविशेषः // 42 // ... // इत्युदीरणाधिकारः // इदानीं प्रकृतिसत्ताव्यवच्छेदाधिकारोद्दिष्टाः प्रकृतीरानुपूर्व्या प्रतिनिर्दिशति अणमिच्छमीससम्मं, 'अविरयसम्माइअप्पमत्तता। सुरनरयतिरियआउं निययभवे सव्वजीवाणं // 43 // पूर्वव्याख्यातैव गाथा / पूर्वमुद्देशाधिकारोक्ताऽपि पुनरिह प्रकृतिनिर्देशप्रसङ्गेन पठिता स्मृत्यर्थ विस्मरणशीलानामिति // 43 // थीणतिगं चेव तहा, नरयदुगं चेव तह य तिरियदुगं / इगिविगलिंदियजाई, आयावुजोयथावरय // 44 // प्राग्भवव्यवच्छिन्नायुस्त्रयसत्ताकः सन्निविरताद्यप्रमत्तान्तगुणस्थानेषु क्षपितदर्शनसप्तको यतिरप्रमत्तः प्रतिसमयानन्तगुणविशुद्धिविवृद्धयात्मकयथाप्रवृत्तकरणबलेनापूर्वकरणं प्रविश्य तत्र चातिशयवद्विशुद्धिवशात्कर्माणि क्षपणयोग्यतामापाद्यानिवृत्तिबादरसम्परायगुणस्थानं प्रविशति / तत्र च प्रथममेव द्वितीयतृतीयानष्टौ कषायान् क्षपयितुमारभते, तेषु चार्द्धक्षपितेष्वेताः षोडश प्रकृतीरुत्सादयति / तद्यथा-'स्त्यानडिनयं' प्रागुक्तम् , 'नग्यदुगं चेव तह य तिरियदुगं' इति, नरकगतिर्नरकानुपूर्वी, तिर्यग्गतिस्तिर्यगानुपूर्वी, 'इगिविगलिंदियजाई' इति, एकेन्द्रियजातिस्तथा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयस्तिस्रः, आतपमुद्योतं स्थावरम् // 44 // 1 "अविरइ" इत्यपि पाठः।