________________ 122 ] कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे 'अन्नयरवेयणीय मणुयाऊ मणुयगइ य बोद्धव्वा / पंचिंदियजाई वि य, तस सुभगा एजपजत्तं // 37 // बायरजसकित्ती वि य, तित्थयरं उच्चगोयय चेव / एया बारस पयडी, अजोगिचरिमंमि वोच्छिन्ना // 38 // __ // उदओ सम्मत्तो // गाथाद्वयम् // 'अन्यतरवेदनीयं' सातमसातं वा, यदुदयावस्थं मनुष्यायुः मनुष्यगतिः पञ्चेन्द्रियजातिः त्रसं सुभगं आदेयं पर्याप्तं बादरं यशःकीर्तिः तीर्थकरं उच्चैर्गोत्रम् , इत्येता द्वादश प्रकृतयो भवस्थायोगिचरमसमये व्यवचिछिन्ना उदयमाश्रित्य क्षयादुत्तरत्रोदयाभावः // 37 // 38 // // इत्युदयाधिकारः॥ इदानीं कास्ताः पश्चनवाद्याः कर्मप्रकृतयो यासां गुणस्थानेषूदीरणाव्यवच्छेदः 1 इत्येतदतिदेशद्वारेणाह उदयस्सुदीरणाए, सामित्ताओ न विजइ विसेसो। मोत्तण तिन्नि ठाणे, पमत्तजोगी अजोगी य // 39 // उदयस्योदीरणस्य च इत्यनयोरभिहितलक्षणयोः 'स्वामित्वात्' स्वामित्वमाश्रित्य, कर्मप्रकृतीनामिति गम्यते / न विद्यते विशेषः संख्यान्यूनाधिकत्वकृतो भेदः / किमुक्तं भवतियावतीनां प्रकृतीनां यो मिथ्यादृष्टयादिर्वेदयिता स तावतीनामुदीरयिता-ऽपीति, अतिप्रसङ्गनिवृत्त्यर्थमपवादमाह-मुक्त्वा त्रीणि स्थानानि प्रमत्तयतिसयोग्ययोगिगुणस्थानकाख्यानीति // 39 // तेषु तु यो विशेषस्तमाह तीसं बारस उदए, केवलिणो मेलणं च काऊण। सायासायं च तहा 'मणुयाउं अवणिय किच्चा // 40 // त्रिंशत् द्वादश च यथासंख्यं प्रकृतय उदयव्यवच्छेदमाश्रित्य, केषाम् 1 इत्याह-केवलिनां सयोगिनामयोगिनां च / ततश्च तासां त्रिंशतो द्वादशानां च प्रकृतीनां मीलनं कृत्वा द्विचत्वारिंशति जातायां सातमसातं च तथा मनुष्यायुरित्येतत् प्रकृतित्रयमपनीतं कृत्वा // 40 // ततः सेसं इगुयालीसं, "जोगिंमि उदीरणा य बोद्धव्वा / अवणीय तिन्नि पयडी, “पमत्त उदयंमि पक्खित्ता // 41 // 1 "अन्नयरं वेअणीयं मणुयाउं मणुयगती य” इत्यपि पाठः। 2 "इज्ज" इत्यपि पाठः / 3 “मणुयाऊमवणियं" (?) इत्यपि पाठः / 4 “सजोगम्मि" इत्यपि / 5 “पमत्तविरियम्मि" इत्यपि पाठः।