SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उदयमाश्रित्य गुणस्थानकेच्छिद्यमानाः प्रकृतयः [121 निदा पयला य तहा, खीणदुचरिमंमि उदयवोच्छेओ। नाणंतरायदमगं, दंगण चत्तारि चरिमंमि // 33 // निद्राप्रचलयोः क्षीणकषायस्य द्विचरमसमये उदयव्यवच्छेदः / चरमसमये तु क्षीणत्वात्तदुदयाभावः / अपरे पुनराहुः-उपशान्तमोहे निद्राप्रचलयोरुदयव्यवच्छेदः। पञ्चानामपि हि निद्राणां घोलनपरिणामे भवत्यु दयः / क्षपकाणां त्वतिविशुद्धत्वान्न निद्रोदयसंभवः / उपशमकानां पुनर नतिविशुद्धत्वात्स्यादपीति / 'नाणंतरायदसगं' इति, ज्ञानावरणे पञ्च, अन्तराये पञ्च, दर्शनावरणानि चत्वारि चक्षुर्दर्शनावरणादीनि, इत्येतासां चतुर्दशानां प्रकृतीनां क्षीणकपायचरमसमये उदयव्यवच्छेदः, तदनन्तरं क्षयादिति // 33 // 'अन्नयरवेयणीय, ओरालियतेयकम्मनामं च / छच्चेव य संठाणा, ओरालियअंगुवंगं च // 34 // 'आइमसंघयणं खलु, वण्णचउक्कं च दो विहायगती। अगुरुयलहुयचउक्कं. पत्तेयथिराथिरं चेव // 35 // सुभसुस्संरजुयलावि य, निमिणं च तहा हवंति नायव्वा / एया तीसं पयडी, सजोगिचरिमंमि वोच्छिन्ना // 36 // गाथात्रयम् / 'अन्यतरवेदनीयं सातमसातं वा यदयोगिगुणस्थाने न वेदयिष्यते / औदारिकशरीरं तैजसशरीरं कार्मणशरीरम् , 'छच्चेव य संठाणा' षट् संस्थानानि समचतुरस्रादीनि, 'ओरालियअंगुवंगं च' इति, औदारिकाङ्गोपाङ्गनाम, 'आदिमसंहननं' वज्रर्षभनाराचम् 'वर्णचतुष्क' वर्णगन्धरसस्पर्शाख्यम् , 'दो विहायगती' इति, प्रशस्ताप्रशस्तविहायोगती इति, 'अगुरुलघुचतुष्क' अगुरुलघूपघातपराघातोच्छ्वासाख्यम् , प्रत्येकं स्थिरं अस्थिरं, 'सुभसुस्सरजुयलावि य' इति, शुभं अशुभं सुस्वरं दुःस्वरं निर्माणम् , इत्येतास्त्रिंशत् प्रकृतय उदयं प्रतीत्य सयोगिचरमसमये व्यवच्छिन्नाः / तत्रान्यतरवेदनीयं यदयोगिगुणस्थाने न वेदयितव्यं तत्सयोगिचरमसमये व्यवच्छिन्नोदयं भवति, पुनरुत्तरत्रोदयाभावात् / सुस्वरदुःस्वरनाम्नोस्तु भाषापुद्गलविपाकित्वाद्वाग्योगिनामेवोदयः, शेषाणां शरीरपुद्गलविपाकित्वात्काययोगिनामेव / तेन हि योगेन तत्पुद्गलग्रहणपरिणामालम्बनानि, ततस्तेषु गृहीतेषु पुद्गलेष्वेतेषां कर्मणां स्वस्वविपाकेनोदयो भवति, तेनायोगिनि योगाभावात्तदुदयाभावः॥३४॥३॥३६॥ 1- "अन्नयरं" इत्यपि पाठः / 2 "आयम" (?) इत्यपि पाठः /
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy