SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 120 ] कर्मस्त्वाख्यै द्वितीये कर्मग्रन्थै थीणतिगं चैव तहा, आहारदुगं पमत्तविरयंमि। . सम्मत्तं संघयणं. अंतिमतिगमप्पमत्तमि // 30 // ___पूर्वार्द्धम् / स्त्यानर्धित्रयं पूर्वोक्तम् , तथा 'आहारकद्वयं' आहारकशरीराहारकाङ्गोपाङ्गा ख्यम् , इत्येतत् प्रकृतिपञ्चकं प्रमत्तविरते व्यवच्छिन्नमुदयं प्रतीत्य / तत्र स्त्यानर्द्धित्रयोदयः प्रमादरूपत्वादप्रमत्ते न संभवति / आहारकं च शरीरं विकुर्वाणो यतिरवश्यं प्रमादवशगो भवति / यत्त्विदमन्यत्र श्रूयते-प्रमत्तयतिराहारकं विकृत्य पश्चाद्विशुद्धिवशात्तत्रस्थ एवाप्रमत्तता यातीति तदाचार्येण वैक्रियोदयन्यायेन न विवक्षितम् / / 'सम्मतं' इत्यादि पश्चार्द्धम् / सम्यक्त्वं, तथा 'संहननानामन्यत्रयं' इति, अर्द्धनाराचकीलिकासेवार्ताख्यं, इत्येताश्चतस्रः प्रकृतय उदयं प्रतीत्याप्रमत्ते व्यवच्छिन्नाः / तत्र सम्य- .. क्त्वे क्षपिते उपशमिते वा श्रेणिद्वयमारुह्यत इत्यपूर्वकरणादौ तदुदयाभावः / चरमसंहननत्रयोदये तु श्रेणिरारोढुं न शक्यते, तथाविधविशुद्धेरभावादित्युत्तरेषु तदुदयाभावः // 30 // तह नोकसायछक्क, अपुवकरणंमि उदयवोच्छेओ। वेयतिग कोह'माणामायासंजलणमनियट्टी // 31 // पूर्वार्द्धम् / नोकषायषट्कस्य हास्यरत्यरतिशोकभयजुगुप्साख्यस्यापूर्वकरणे उदयव्यवच्छेदः / संक्लिष्टतरपरिणामवेद्यत्वादुत्तरेषां च विशुद्धतरपरिणामत्वात्तेषु तदुदयाभाव इति, उत्तरेष्वप्ययमुदयव्यवच्छेदो हेतुरनुसरणीयः॥ 'वेयतिग' इत्यादिपश्वार्द्धम् / वेदत्रिकं स्त्रीवेदपु वेदनपुंसकवेदाख्यम् , क्रोधमानमायाः संज्वलनास्त्रयः, इत्यस्य प्रकृतिषट्कस्यानिवृत्तिबादरसम्पराये उदयव्यवच्छेदः / तत्र स्त्रियाः श्रेणिमारोहन्त्याः स्त्रीवेदस्य प्रथममुदयव्यवच्छेदः, ततः क्रमेण संज्वलनत्रयस्य, पुसोऽप्येवम् , नवरं प्रथमं पुवेदस्य, नपुसकस्य तु प्रथमं नपुसकवेदस्य // 31 // संजलणलोभमेगं, 'सुहुमकसायंमि उदयवोच्छेओ। तह 'रिसहं नाराय, नारायचेव उवसंते // 32 // पूर्वार्द्धम् / संज्वलनलोभस्यैकस्य सूक्ष्मकषाये उदयव्यवच्छेदः / तदुत्तरेष्वस्योदयाभावः, उपशान्तत्वात्क्षीणत्वाद्वा // 'तह रिसहं' इति पश्चार्द्धम् / ऋषभनाराचं द्वितीयं संहननं नाराचं तृतीयमित्यनयोरुपशान्तमोहे उदयव्यवच्छेदः / प्रथम संहननेनैव क्षपकश्रेण्यारोहणात्क्षीणमोहादौ तदुदयाभावः। उपशमश्रेणिस्तु प्रथमसंहननत्रयेणारुह्यते // 32 // 1 "माणयः” इत्यपि पाठः / 2 "सुहु मसरागम्मि" इत्यपि पाठः / 3 "रिसहनाः' इत्यपि पाठः।
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy