________________ उदयमधिकृत्य गुणस्थानेषु व्यवच्छिद्यमानाः प्रकृतयः / 119 पूर्वार्द्धम् / सम्यङ्मिथ्यात्वस्यैकस्य सम्यङ्मिथ्यादृष्टावृदयच्यवच्छेदः / तदुदये हि सम्यमिथ्यादृष्टिरेव भवति नान्य इति / / ___ 'बोयकसायचउक' इति, अप्रत्याख्यानावरणाः क्रोधमानमायालोभाः / देवायुः नरकायुः मनुजानुपूर्वी, तिर्यगानुपूर्वी 'घेउब्धियछक्क' इति वैक्रियेण युक्तं षटकं वैक्रियषट्कम्क्रियशरीरं वैक्रियाङ्गोपाङ्ग नरकगतिः नरकानुपूर्वी देवगतिः देवानुपूर्वीति / दुर्भगं, अनादेयं, अयशःकीर्तिः, इत्येताः सप्तदश प्रकृतय उदयं प्रतीत्याविरतसम्यग्दृष्टौ व्यवच्छिन्नाः / द्वितीयकषायोदये देशविरतेरपि लाभः श्रुते प्रतिषिद्धः, 'बोयकसायाणदये' इत्यादिना / नापि पूर्वप्रतिपन्नदेशविरत्यादेर्जीवस्य तदृदयसंभवः, तेनोत्तरेषु तदुदयाभावः / देवनरकायुषी देवगतिद्वयं नरकगतिद्वयं च यथास्वं देवनारकवेद्यमेव, न च तेषु देशविरत्यादेः संभवः / वैक्रियशरीरवैक्रियाङ्गोपाङ्गनाम्नोस्तु देवनारकेषूदयः / तिर्यङ्मनुष्येषु त्वप्राचुर्येणाविरतसम्यग्दृष्टयन्तेषु / यस्तूत्तरगुणस्थानेष्वपि केषाञ्चिदागमे विष्णुकुमारस्थूलभद्रादीनां वैक्रियद्वितियस्योदयः श्रूयते, स इहाचार्येण न विवक्षितः, किं प्रविरलतरत्वात् , आहोस्विदन्यः कोऽप्यभिप्रायः 1, इति न विद्मः तिर्यङ्मनुजानुपूर्योस्तु परभवादिसमयेषु त्रिष्वपान्तरालगतावुदयसंभवः, स च यथायोगं तिर्यङ्मनुष्याणां वर्षाष्टकादुपरिष्टात्संभविषु देशविरत्यादिगुणस्थानेषु न संभवति / दुर्भगमनादेयमयशःकीर्तिरित्येतास्तु तिस्रः प्रकृतयो देशविरतादीनां गुणप्रत्ययानोदन्तीत्यत एता अवेरते व्यवच्छिनाः // 27 // 28 // तइयकसायचउक्कं, 'तिरियाऊ तह य चेव तिरियगई। उज्जोय नीयगोयं, विरयाविरयंमि वोच्छिन्ना // 29 // 'तृतीय कषायचतुष्कं' इति, प्रत्याख्यानावरणाः क्रोधादयः, तिर्यगायुः, तिर्यग्गतिः, उद्योतं, नीच्चैगोत्रम् , इत्येता अष्टौ प्रकृतय उदयं प्रतीत्य विरताविरते व्यवच्छिन्नाः / विरतवासौ स्थूलप्राणातिपातादेरविरतश्च सूक्ष्मप्राणातिपातादेविरताविरतो-निवृत्तानिवृत्तो देशविरत इत्यर्थः / तृतीयकषायोदये हि चारित्रलाभो न भवति, "तहयकसायाणुदए" इत्यादिवचनात् / न च पूर्वप्रतिपन्नचारित्रस्य तदुदयसंभव इत्युत्तरेषु तदुदयाभावः / तिर्यगायुस्तिर्यग्गतिरुद्योतनाम इत्येताः स्वभावतस्तिर्यग्वेद्या एव / तेषु च देशविरतान्तान्येव गुणस्थानानि संभवन्ति नोत्तराणि इत्युत्तरेषु तदुदयाभावः / उद्योतनाम्नस्तु यतिवेक्रियेऽप्युदयसंभवः / तथा चोक्तम्"उत्तरवेउच्च देवजति" इति, स विहाचार्येण वैक्रियोदयवन विवक्षितः / नीचेगोत्रं तु तिर्यक्षु गतिस्वाभाव्याद्धृवौदयिकं न परावर्तते / ततश्च देशविरतस्यापि तिरश्चो नीचेगोत्रोदयोऽस्त्येव / मनुजेषु तु सर्वस्य देशविरतादेगुणिनो गुणप्रत्ययादुच्चगोत्रमेवोदेतीति उत्तरत्र नीचैगोत्रोदयाभावः / ततश्चैता अष्टावपि देशविरत एवोदयं प्रतीत्य व्यवच्छिन्नाः // 29 // 1 "तिरियाउं तहय चेव तिरियगई" इत्यपि पाठः / 2 “निच्च” इत्यपि पाठः /