________________ 118 कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे ___ अथेदानी कास्ताः पश्चाद्याः कर्मप्रकृतयो यासां मिथ्यादृष्टयादिगुणस्थानेषूदयव्यवच्छेदः ? इत्याह मिच्छत्तं आयावं सुहम अपजतया य तह चेव। . साहारणं च पंच य, मिच्छमि य उदयवोच्छेओ॥२५॥ मिथ्यात्वं आतपनाम सूक्ष्मनाम अपर्याप्तकनाम साधारणं च, इत्यासां पश्चानां प्रकृतीनां मिथ्यादृष्टावुदयव्यवच्छेदः / मिथ्यात्वोदयस्तावन्मिथ्यादृष्टेरेव भवति, तेनोत्तरेषु तदुदयाभावः। आतपनामोदयस्तु बादरपृथिवीकायिकेश्वेव / अपर्याप्तनाम्नस्तु सर्वेष्वपर्याप्तकेषु / सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियेषु / साधारणनाम्नोऽनन्तकायिकवनस्पतिषु / न चैतेषु स्थितो जीवः सासादनादित्वं लभते, नापि पूर्वप्रतिपन्नस्तेषूल्पद्यते / सासादनस्तु यद्यपि बादरपर्याप्तकैकेन्द्रियेषत्पद्यते तथाऽपि न तस्यातपनामोदयसंभवः, तत्रोत्पन्नमात्रस्यासमाप्तशरीस्यैव सासादनत्ववमनात् / समाप्ते च शरीरे तत्रातपनामोदयो भवति, तेनैतासां मिथ्यादृष्टौ व्यवच्छेद उदयस्य // 25 // अण एगिदियजाई, विगलिंदियजाइमेव थावरयं / / एया नव पयडीओ, सासणसम्मंमि वोच्छिन्ना // 26 // 'अण' इति अनन्तानुबन्धिनश्चत्वारः, एकेन्द्रियजातिः, 'विगलिंदियजाइमेव' इति. विकलानि पञ्चभ्य ऊनानि इन्द्रियाणि येषां ते विकलेन्द्रिया द्वीन्द्रियादयस्तेषां ,जातयस्तिस्रः, तद्यथा-द्वीन्द्रियजातिः, त्रीन्द्रियजातिः, चतुरिन्द्रियजातिः, स्थावरनाम, इत्येता नव प्रकृतयः सासादनसम्यग्दृष्टावुदयं प्रतीत्य व्यवच्छिन्नाः। अनन्तानुबन्धिनामुदये सम्यक्त्वलाभो न भवति, "पढमिल्लुयाण उदए, नियमा संजोयणा कसायाणं / सम्मइंसणलंभं, भवसिद्धीयावि न लभंति // 1 // " इतिवचनात् / नापि सम्यमिथ्यात्वं कोऽप्यनन्तानुबन्ध्युदये गच्छति / योऽपि पूर्वप्रतिपन्नसम्यक्त्वोऽनन्तानुबन्धिनामुदयं करोति सोऽपि सासादन एव भवतीत्युत्तरेवासामुदयाभावः / शेषास्त्वेकेन्द्रियजात्यादयो यथास्वमेकेन्द्रियविकलेन्द्रियवेद्या एव / उत्तरगुणस्थानानि तु संज्ञिपञ्चेन्द्रिया एव प्रतिपद्यन्ते / पूर्वप्रतिपन्नोऽपि पञ्चेन्द्रियेष्वेव गच्छति अन उत्तरेष्वासामुदयाभावः। / ततश्च सासादन एवोदयव्यवच्छेदः // 26 // सम्मा मिच्छत्तेगं, सम्मामिच्छमि उदयवोच्छेओ। बीयकमायचउक्कं. तह चेव य नरयदेवाऊ // 27 // मणुयतिरियाणुपुब्बी. वेउब्धियछक्क 'दूहयं चेव / अणएज्जं चेव तहा. अजसकित्ती अविरगंमि // 28 // . 1 "दूहियं” इत्यपि पाठः /