________________ बन्धं समाश्रित्य गुणस्थानकेच्छिद्यमानाः प्रकृतयः [117 'छब्भाग' इति, पष्ठे सप्तभागे बन्धव्यवच्छेदः / हास्यरतिभयजुगुप्साश्चतस्रः प्रकृतयोऽपूर्वकरणचरमे सप्तभागे बन्धं प्रतीत्य व्यवच्छिन्नाः / / 18 // 19 // 20 // 21 // . पुरिसं चउसंजलणं, पंच य पयडीओ पंच 'भागंमि। अनियट्टीअद्धाए, जहकमं बंधवोच्छेओ // 22 // पुरुष कर्म पुरुपवेदः, 'चउ संजलणं' इति, चत्वारः संज्वलनाः क्रोधमानमायालोभाः, इत्येतासां पश्चानां प्रकृतीनां 'पञ्च भागंमि' इति, पञ्चसु भागेष्वनिवृत्त्यद्धायाः 'यथाक्रम यथासंख्यमेकैकस्मिन् भागे एकैकस्याः प्रकृतबन्धव्यवच्छेदः / पुरुषवेदादीनां मायासंज्वलनान्तानामुत्तरत्र तद्वन्धाध्यवसायस्थानाभावः, व्यवच्छेदहेतुलोभसंज्वलनस्य (संज्वलनलोभस्य) तु बादरसम्परायप्रत्ययो बन्धः, स चोत्तरत्र नास्तीत्यतो व्यवच्छेदः // 22 // नाणंतर यदसगं देसण चत्तारि उच्च जसकित्ती / एया सोलस पयडी, 'सुहुमकसायंमि वोच्छिन्ना // 23 // 'नाणंतरायदसगं' इति, ज्ञानावरणं पञ्चविधमन्तरायं पञ्चविधं, 'दसण चत्तारि' इति, दर्शनावरणानि चत्वारि चक्षुरचक्षरवधिकेवलदर्शनावरणाख्यानि, उच्चैगोत्र, यश कीर्तिः, इत्येताः षोडश प्रकृतयः सूक्ष्मकषाये बन्धं प्रतीत्य व्यवच्छिन्नाः / एतबन्धस्य साम्परायिकत्वादुत्तरेषु च सम्परायस्य कषायोदयलक्षणस्याभावात् // 23 // उवसंतखीणमोहे, जोगिंमि उ साय बंधवोच्छेओ। नायव्वो पयडीणं, बंधस्संतो अणंतोय // 24 // // बंधो सम्भत्तो / उवसंतेत्यादि / उपशान्तमोहे क्षीणमोहे सयोगिकेवलिनि च सातवेदनीयस्य बन्धव्यवच्छेदः / तदुत्तरस्मिन्नयोगिकेवलिनि तद्वन्धप्रत्ययस्य योगस्याभावात् , इत्येवं ज्ञातव्यः प्रकृतीनां चन्धस्यान्तोऽनन्तश्च / यत्र हि गुणस्थाने यासां प्रकृतीनां बन्धहेतुव्यवच्छेदस्तत्र तासां बन्धस्यान्तः, यथा मिथ्यादृष्टिव्यवच्छिन्नबन्धानां पोडशानां प्रकृतीनां मिथ्यात्वाविरतिप्रमादकपाययोगाः समुदिता बन्धहेतवः, तेषु मध्ये मिध्यात्वं तत्रैव व्यवच्छिन्नम् / ततश्च मिथ्यादृष्टिगुणस्थाने तासां बन्धस्यान्तः तत उत्तरेषु कारणवैकल्येन बन्धाभावादितरासां बन्धस्यानन्तः / तत उत्तरेष्वपि तद्वन्धकारणसाकल्येन बन्धभावात् इत्येवमन्येष्वपि गुणस्थानेषु प्रकृतीनां स्वस्वबन्धहेतूनां व्यवच्छेदाव्यवच्छेदाभ्यां साकल्यवैकल्यवशाद्वन्धस्यान्तोऽनन्तश्च भावनीयः॥२४॥ // इति बन्धाधिकारः समाप्तः // 1 "मायम्मि" इत्यपि पाठः / 2 "सुहुमसरागम्मि" इत्यपि पाठः / 3 "सजोइम्मी साय” इत्यपि पाठः / 4 "वा" इत्यपि पाठः।