________________ कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे अन्जसकित्ती य तहा, पमत्तविरयंमि बंधवोच्छेओ। 'देवाउयं च एगं, नायब्वं अप्पमत्तंमि // 17 // तइयेत्यादि गाथापूर्वाद्धम् / 'तइयकसायचउक्कं' इति, प्रत्याख्यानावरणानां क्रोधमानमायालोभाना देशविरतेर्बन्धव्यवच्छेदः, तदुत्तरेषु तेषामुदयाभावादनुदितानां चाबन्धात्प्राग्वत् // ____ 'अस्साय' इत्यादि पश्चार्द्धम् / 'अन्जसकित्ती' इत्यादि पूर्वार्द्धम् / असातवेदनीयं अरतिः शोकः अस्थिरनाम अशुभनाम // 16 // अयशःकीर्तिनाम, इत्येतासां षण्णां प्रकृतीनां प्रमत्तविरतेर्बन्धव्यवच्छेदः, तद्वन्धस्य प्रमादप्रत्ययत्वात् , प्रमादस्य चोत्तरत्राभावात् // 'देवाउयं' इत्यादि पश्चार्द्धम् , देवायुष्कमेकं ज्ञातव्यं, अप्रमत्ते बन्धं प्रतीत्य व्यवच्छिनम् / 'देवायुष्कबन्धं हि प्रमत्तः सन्नारभते, तद्वन्धाद्धायामेव कश्चिदप्रमत्तो भूत्वा समापयति, न त्वप्रमत्त एवारभते / तदुत्तरेषु तद्वन्धासंभव एव, तेपामत्यन्तविशुद्धत्वात् , आयुषश्चं घोलनापरिणामेनैव बन्धात् // 17 // निदापयला य तहा, अपुव्वपढमंमि बंधवोच्छेओ। देवदुगं पंचिंदिय-उरालवज्जं चउसरीरं // 18 // समचउरं वेउब्विय-आहारय अंगुवंगनामं च / वण्णचउक्कं च तहा, अगुरुयलहुयं च चत्तारि // 19 // तसचउपसत्थमेव य, विहायगइ थिरसुभं च नायव्वं / सुहयं सुस्सरमेव य, आएज्ज चेव निमिणं च // 20 // तित्थयरमेव तीसं, अपुव्वछब्भागबंधवोच्छेओ / हासरइभयदुगुछा, अपुव चरमंमि वोच्छिन्ना // 22 // निदेति गाथाचतुष्कं / अपूर्वकरणाद्धायाः सप्त भागाः क्रियन्ते / तत्र प्रथमे भागे निद्राप्रचलयोर्वन्धव्यवच्छेदः / तदुत्तरत्र तद्वन्धाध्यवसायस्थानाभावाद् , उत्तरेष्वपि चायमेव हेतुरनुसरणीयः / 'देवदुर्ग' इति, देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिः 'उरालवलं चउसरीरं' इति, वैक्रियं आहारकं तैजसं कामणं, समचतुरस्रसंस्थानं वैक्रियाङ्गोपाङ्ग आहारकाङ्गोपाङ्गम 'वण्णचउक्कं च तहा' इति, वर्णो गन्धो रसः स्पर्शः, 'अगुरुयलहुयं च चत्तारि' इति, अगुरुलघु उपघातं पराघातं उच्छ्वासनाम चेति, 'तस चउ' इति, वसं बादरं पर्याप्तकं, प्रत्येकं, 'पसत्यमेव य विहायगइ' इति, प्रशस्ता विहायोगतिः, स्थिरं शुभं च ज्ञातव्यम् , सुभगं सुस्वरं आदेयं निर्माणं तीर्थकरनाम, च, इत्येतासां त्रिंशतः कर्मप्रकृतीनामपूर्वकरणस्य १"देवाउगं च एक्कं तहापमत्तम्भि नायव्वं" / इत्यपि पाठः।२ "तदायु०" इत्यपि पाठः। 3 "सन्ना रभ्य त०" इति वा पाठः / 4 "चेव" (1) इत्यपि पाठः ।५"०चरिमम्मि' इत्यपि पाठः। '