________________ बन्धं प्रतीत्य गुण थानकेषु व्यवछिद्यमानाः प्रकृतयः [ 115 थीणतिगं इत्थी वि य, अण तिरियाउं तहेव तिरियदुगं। मज्झिम चउ संठाणं, मज्झिम चउ चेव संघयणं // 13 // उज्जोयमप्पसत्था, 'विहायगइ दूभगं अणाएज्जं / दूसर नीयागोयं, सासणसम्मम्मि वोच्छिन्ना // 14 // 'थीप तिगं' इति, निद्रानिद्रा 1 प्रचलाप्रचला 2 स्त्यानगृद्धिः 3 स्त्रीवेदः 4 'अण' इति, अनन्तानुबन्धिनश्चत्वारः क्रोधमानमायालोभाः 8 तिर्यगायुष्कं 9 'तहेव तिरियदुर्ग' इति, तिर्यग्गतिनाम 10 तिर्यग्गत्यानुपूर्वीनोम 11 'मज्झिम चउ संठाणं मज्झिम चउ चेव संघयणं' इति, प्रथमचरमवर्जानि मध्यमानि चत्वारि चत्वारि संस्थानसंहननानि / तानि चामनिन्यग्रोधपरिमण्डलसंस्थानं सादिसंस्थानं वामनसंस्थानं कुब्जसंस्थानं ऋषभनाराचसंहननं नाराचसंहननं अर्द्धनाराचसंहननं कीलिकासंहननं चेति, उद्द्योतनाम अप्रशस्तविहायोगतिः दुर्भगं अनादेयं दुस्वरं नीचैर्गोत्रम् , इत्येताः पञ्चविंशतिः कर्मप्रकृतयो बन्धं प्रतीत्य सासादनसम्यग्दृष्टौ व्यवच्छिन्नाः / अनन्तानुबन्ध्युदयप्रत्ययत्वादेतद्वन्धस्य तदभावादुत्तरेष्विति // 13 // 14 // बीयकसायचउक्क, मणुयाउं मणुय दुग य ओरालं। तस्स य अंगोवंगं, संघयणाई अविरयंमि // 15 // ... 'बीयकसायचउक्कं इत्यप्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोभाः मनुष्यायुष्क 'मणुयदुग य' इति, मनुष्यगतिर्मनुष्यगत्यानुपूर्वी, औदारिकशरीरं 'तस्स य अंगोवंग' इति, औदारिकाङ्गोपाङ्ग संघयणाई' इति, संहननानामादिप्रकृतिर्वज्रर्षभनाराचसंहननम् , इत्येता देश प्रकृतयोऽविरतसम्यग्दृष्टौ व्यवच्छिन्ना इति वर्तते / बन्धं प्रतीत्येति च प्रकरणाद्गम्यते / तत्र द्वितीयकपायचतुष्कं तदुदयाभावान्न बध्नाति देशविरतादिः। कषाया ह्यनन्तानुबन्धिवर्जा वेद्यमाना एव बध्यन्ते, "जे वेयइ ते बंधति" इतिवचनात् / अनन्तानुबन्धिनस्तु चतुर्विंशतिमोहसत्कर्माऽनन्तवियोजको मिथ्यात्वं गतो बन्धावलिकामात्रं कालमनुदितान् बध्नाति / मनुप्यायुरादित्रयं त्वेकान्तेन मनुष्यवेद्यमेव / औदारिकादित्रयं तु मनुष्यतिर्यगेकान्तवेद्यमेव / देशविरतादिस्तु देवगतिवेद्यमेव बध्नाति, नान्यत् / तेनैतद्दशकमविरत एव व्यवच्छिन्नम् / सम्यग्मिथ्यादृष्टौ न कस्यचिद्रन्धव्यवच्छेदः, तस्याविरतसम्यग्दृष्टिना सह बन्धहेत्वविशेषात् // 15 // तइयकसायचउक्कं, विरयाविरयंमि बंधवोच्छेओ। अस्सायमरइसोयं, तह चेव य अथिरमसुभं च // 16 // 1 “बिहाइगइदूमयं” इत्यपि पाठः / 2 "०दुवय” इत्यपि पाठः / 3 "अस्साइअरइसोगं” इत्पपि पाठः / जाराला