SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 114 ] कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे द्विधा-उच्चैोत्रं 1 नीचैर्गोत्रं 2 च / तत्रोच्चैर्गोत्रमष्टधा वेद्यते, जातिकुलबलरूपतपऐश्वर्यश्रुतलाभैः 1 / तद्विपर्ययात्तु नीचैर्गोत्रम् 2 / निर्गुणोऽपि हि जातिवशादुत्तम इति जनैः पूज्यते / जातिहीनस्तु गुणवानपि निन्द्यते तथा कुलादिष्वपि वाच्यम् उक्तं द्विविधं गोत्रम् 7 // जीवं चार्थसाधनं चान्तरा एति पततीत्यन्तरायम् / जीवस्य दानादिकमर्थं सिसाधयिषोविनीभूय विचाले पततीत्यर्थः / तत्पश्चधा-दानस्यान्तरायं दानान्तरायमित्यादि / सति दातव्ये वस्तुनि समागते च गुणवति पात्रे दानस्य च कल्याणकं फलविशेष विद्वानपि यदुदयादातुनोत्सहते तदानान्तरायम् 1 प्रसिद्धादपि सर्वप्रदादातुः गृहे च विद्यमानं देयमर्थजातं याश्चाकुशलो याचमानो गुणवानपि यदुदयान लभते तल्लाभान्तरायम् 2 / सकृद्भज्यत इति भोगः, आहारमाल्यविलेपनादिः / पुनः पुनभुज्यत इत्युपभोगः शयनवसनवनिताभूषणादिस्तस्यान्तरायम् , भोग्यमुपभोग्यं वा विद्यमानमनुपहताङ्गोऽपि यदुदयान्न शक्नोति भोक्तुमुपभोक्तु वा तद्भोगान्तरायमुपभोगान्तरायं च वेदितव्यम् 3 / 4 / वीर्य शक्तिरुत्साहः सामर्थ्यमिति चोच्यते, तस्यान्तरायं विघातकं वीर्यान्तरायम् / यदुदयादनुपहतपीनाङ्गोऽपि शक्तिविकलो भवति तद्वीर्यान्तरायम् 5 / इत्युक्तं पञ्चविधमन्तरायम् 8 // कृता च प्रकृतिवर्णना / व्याख्यातं च मृलोत्तरप्रकृतिसंख्याप्रतिपादकं गाथाद्वयम् // 9 // 10 // इदार्नी कास्ता मिथ्यादृष्टयादिगुणस्थानेषु षोडशाद्याः कर्मप्रकृतयो बन्धादीन् प्रतीत्य व्यवच्छिन्नाः 1 इति प्रदर्शयन्नाह मिच्छ नपुंसगवेयं, नरयाउं तह य चेव नरयदुर्ग। इगविगलिंदिय'जाई, हुंडमसंपत्तमायावं // 11 // थावर सुहुमं च तहा, साहारणयं तहा अपजत्तं / एया सोलस पयडी, मिच्छमि य बंधवोच्छेओ॥१२॥ मिथ्यात्वं नपुसकवेदः नरकायुष्कं 'तह य नरयदुगं' इति, नरकगतिनाम 'नरकगत्यानुपूर्वीनाम 'इगविगलिंदियजाई' इति, एकेन्द्रियजातिः द्वीन्द्रियजातिः त्रीन्द्रियजातिः चतुरिन्द्रियजातिः हुण्डं संस्थानं 'असंप्राप्तं' सेवार्तसंहननं आतपनाम स्थावरनाम सूक्ष्मनाम साधा. रणनाम अपर्याप्तनाम, 'एया सालस पयडी' इति, विभक्तिव्यत्ययादेतासां षोडशानां प्रकतीनां मिथ्यादृष्टिगुणस्थाने बन्धव्यवच्छेदो भवति, एतत्प्रकृतिबन्धस्य मिथ्यात्वप्रत्ययत्वात् ,. तस्य चोत्तरत्राभावात् // 11 // 12 // 1 "जाई" इत्यपि पाठः / 2 "नरकानुपूर्वीनाम” इति वा पाठः //
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy