________________ प्रकृतिवर्णना [ 113 32 / सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यश उच्यते, एकदिग्गामिनी तु दानपुण्यकृता वा कीर्त्तिः, यशश्च कीर्तिश्च यशःकीर्ती, ते यदुदयाद्भवतस्तद्यशःकीर्तिनाम 33 / तद्विपर्ययादयश-कीर्त्तिनाम 34 / सर्वप्राणिनां शरीराणि यदुदयान्नैकान्तगुरूणि नैकान्तलघूनि भवन्ति तदगुरुलघुनाम / एकान्तगुरुत्वे हि वोढुमशक्यानि स्युः, एकान्तलघुत्वे तु वायुनाऽपि हियमाणानि धारयितु न पायेंरन् 35 / स्वशरीरावयवैरेव नखादिभिः शरीरान्तर्वईमानैर्यदुदयादुपहन्यते पीडयते तदुपघातनाम 36 / यदुदयात् परानाहन्ति दुष्प्रधृष्यतया शरीराकृतेरभिभवति तत्पराघातनाम 37 / यदुदयादुच्छ्वासलब्धिरात्मनो भवति तदुच्छ्वासनाम / सर्वलब्धीनां क्षायोपशमिकत्वादौदयिकी लब्धिर्न संभवति ?, इति चेत् नैतदस्ति, वैक्रियाहारकलब्धीनामौदायिकीनामपि संभवात् / वीर्यान्तरायक्षयोपशमोऽपि च तत्र निमित्तीभवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि न विरुध्यत एव / सतीमपि चोच्छ्वासनामोदयजनितामुच्छवसनलब्धिमात्मा व्यापारयितु न शक्नुयात् शक्तिविशेषरूपामुच्छ्वासपर्याप्तिमन्तरेण, यथा हि वीर्यान्तरायक्षयोपशमजनितां सतीमपि वाग्व्यापारात्मिकां वाग्वीर्यलब्धि व्यापारयितु न शक्नोति 'भाषापर्याप्तिमन्तरेण, इत्यसावपि वाग्वीर्यलब्धेः पृथगिष्यते / यथा वा ज्ञानदर्शनावरणान्तरायक्षयोपशमजनितां सतीमपि मनोव्यापारात्मिकां पर्यालोचनवीर्यलब्धि व्यापारयितु न शक्नोति मनःपर्याप्तिमन्तरेण इत्यसावपि मनोवीर्यलब्धेः पृथगिष्यत एव / तथोच्छ्वासनामोदयजनितायामुच्छ्वासलब्धौ सत्यामप्युच्छ्वासपर्याप्तिरेपितव्या 38 / यदुदयाजन्तुशरीराण्यत्युष्णप्रकाशलक्षणमातपं प्रकुर्वन्ति तदातपनाम / तदुदयश्च रविविम्बादौ पार्थिवशरीष्वेव न शेषेषु, वह्निज्वालाप्रभादिपूष्णप्रकाशरूपत्वे सत्यप्यातपो न भवति, किं तर्हि ? तेजे जन्नुशरीराण्येव, तत्र तूष्णत्वमुष्णस्पर्शनामोदयात् , प्रकाशरूपत्वं तु लोहितवर्णनामोदयादवसेयमिति 39 / यदुदयाजन्तुशरीरमनुष्णप्रकाशात्मकमुयोतं प्रकरोति / यथा यतिदेवोत्तरवैक्रियचन्द्रसंग्रहतारारत्नौषधिमणिप्रभृतयस्तदुद्योतनाम 40 / यदुदयाच्छरीरेष्वङ्गप्रत्यङ्गानां प्रतिनियतस्थानवृत्तिता भवति तत्सूत्रधारकल्पं निर्माणनाम / तदभावे हि तद्भुतककल्पैरङ्गोपाङ्गनामादिभिनित्तानामपि शिरउरउदरादीनां स्थानवृत्तेरनियमः स्यात् 41 यदुदयाजीवः सदेवम जासुरलोक पूज्यमुत्तमोत्तमं पदं धर्मतीर्थस्य प्रवर्तयितृत्वमवाप्नोति तत्तीर्थकरनाम 42 / इत्युक्तं नाम 6 / / गां वाचं त्रायत इति गोत्रम् / तत्पुनः प्राणिनामुच्चैींचैर्भावलक्षणः कर्मविशेषोदयजनितः पर्यायविशेषः / स [ त्तमाधमादिशब्दरूपां स्वार्थप्रतिपादनप्रवृत्तां प्रवृत्तिनिमित्तीभवन् वाचं रक्षति तदर्थाभिधायित्वेन पालयति / अथवा 'गुङ शब्द' इत्यस्माद्धातोः ष्ट्रन् / गूयते संशब्दयते प्रधानाधमादिरूपतयाऽनेनेति गोत्रम् / तथाविधविपाकवेद्यं कर्मापि गोत्रम् , तच्च 1 "वाक्पर्या-" इति पाठः॥