________________ 112 ) कमस्तवाख्ये द्वितीये कमग्रन्थे स्थावराः पृथिव्यादय एकेन्द्रियाः, तत्पर्यायविपाकवेद्यं कर्मापि स्थावरनाम | नेजोवायनां तु स्थावरनामोदयेऽपि स्वाभाविकं चलनम् 16 / यस्योदयाजीवा बादराः म्यूरा भवन्ति तद्रादरनाम / न चेह चाक्षुषत्वं बादरत्वमिष्टं, बादरम्याप्येकैकस्य पृथिव्यादिशरीरस्य च क्षुषत्वाभावात् / यद्यपि चैतज्जीवविपाकि बादरनाम तथापि शरीरेऽभिव्यक्ति कियतीमपि दर्शयति / 'यथा क्रोध उदितो रक्तनेत्रभ्रकुटीभङ्गरूक्षवदनत्वादिकमिनि / तेन पृथिव्यादीनां बादराणां बहनों समेताना चाक्षुषत्वं भवति, न तु सूक्ष्माणामिति 17 / यस्योदयात्सूक्ष्माः पृथिव्यादयः पञ्च भवन्ति तत्सूक्ष्मनाम 18 / पर्याप्तिराहारादिपुद्गलदलिकग्रहणपरिणमनहेतुः पुद्गलोपचयजः शक्तिविशेषः / सा च साध्यभेदेन पोढा / यया ह्याहारमात्मा गृहीत्वा खलरसतया परिणमयति सा शक्तिराहारपर्याप्तिः / यया रसीभूतमाहारं सप्तधातुतया परिणमयति सा शरीरपर्याप्तिः / यया तु धातुभूतमिन्द्रियतया परिणमयति सेन्द्रियपर्यामिः / यया तूच्छ्वासप्रायोग्यं वर्गणाद्रव्यमादायोच्छ्वासतयाऽऽलम्ब्य मुञ्चति सोच्छ्यामपर्यामिः / यया तु भाषाप्रायोग्यं वर्गणाद्रव्यमादाय भाषात्वेनावलम्ब्य मुश्चति मा भाषापर्याप्तिः / यया तु मनःप्रायोग्यं वर्गणाद्रव्यमादाय मनस्तयाऽऽलम्ब्य मुश्चति सा मनःपर्याप्तिः / इत्येताः यथासंख्यमेकेन्द्रियविकलेन्द्रियसंज्ञिपञ्चेन्द्रियाणां चतुष्पश्चषट्सङ्ख्याः पर्याप्तयो यस्योदयाद्भवन्ति तत्पर्याप्तक नाम / येषां हि पर्याप्तयः सन्ति ते पर्याप्ताः, मत्वर्थीयोऽचप्रत्ययः, पर्याप्ता एव पर्याप्तकाः / तद्भावविपाकवेद्यं कर्मापि पर्याप्तकनाम / ननु च शरीरपर्याप्त्यैव शरीरं भविष्यति तत्कि शरीरनाम्ना ? नेतदस्ति, साध्यभेदात , शरीरनाम्नो हि जीवेन गृहीतानां पुद्गलानामौदारिकादित्वेन परिणतिः साध्या, शरीरपर्याप्तेस्तु प्रागात्मनाऽऽरब्धस्य शरीरस्य परिसमाप्तिरिति 19 / ता एव षड् यथास्वं शक्तयो विकला अपर्याप्तयस्ता यस्योदयाद्भवन्ति तदपर्याप्तकनाम, शब्दव्युत्पत्निः पूर्ववत् 20 यस्योदयाप्रत्येकं शरीरं भवति, एकैकस्य जीवस्यकैकं शरीरमित्यर्थः, तत्प्रत्येकनाम 21 / यस्योदयादनन्तानां जीवा साधारणमेकं शरीरं भवति तत्साधारणनाम 22 / यदयादरथ्यादयः शरीरावयवाः स्थिरा निश्चला भवन्ति तत्स्थिरनाम 23 / यदुदयाजिह्वादिवदस्थिरा भवन्ति तदस्थिरनाम 24 / यदुदयान्नाभेरुपरि शुभाः शरीरावयवा भवन्ति तच्छुभनाम, शिरःप्रभृतिना हि स्पृष्टस्तुष्यति पादादिभिस्तु रुप्यति 25 / यदुदयानाभेरधोऽशुभाः शरीरावयवा भवन्ति तदशुभनाम 26 / यदुदयान्मधुरगम्भीरोदारः स्वरो भवति तत्सुस्वरनाम 27 / यदुदयात्खरभिन्नहीनदीनः स्वरो भाति तद्दु स्वर नाम 28 / यदुदयात्सर्वस्य प्रियः प्रह्लादकारी भवति तत्सुभगनाम 29 / तद्विपरीतं दुगनाम 30 / यदुदयेन यत्किचिदपि ब्रुवाण उपादेयवचनो भवति सर्वस्य तदादेयनाम 31 / यदुदयेन तु युक्तमपि त्रु वाणः परिहार्यवचनो भवति तदनादेयनाम 1 "यथा क्रोधे उदिते" इत्यपि पाठः //