________________ [ 111 प्रकृतिवर्णना 5-4-120) इत्यकारः समासान्तः / अम्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवाः / ततश्च सर्वेऽप्यवथवाः शरीरलक्षणोक्तप्रमाणाऽव्यभिचारिणो यस्य, न तु न्यूनाधिकप्रमाणाः, तत्तुल्यं समचतुग्धम् / न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलम् / यथा न्यग्रोध उपरि संपूर्णावयवः, अधस्तनभागे तु न तथा, तथेदमपि नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाग् , अधस्तु हीनाधिकप्रमाणमिति / सादीति, आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, तेनादिना शरीरलक्षणोक्तप्रमाणभाजा मह वर्तते यत्नत्सादि / सर्वमेव हि शरीरमविशिष्टेना दिना मह वर्तते इति विशेषणान्यथानुपपत्तेरादेरिह विशिष्टता लभ्यते / सादि उत्सेधबहुलं परिपूर्णोत्सेधमित्यर्थः / वामनं पडभकोष्ठं, यत्र पाणिपादशिरोग्रीवं शरीरलक्षणोक्तप्रमाणयुक्तम् , यत्पुनः शेष कोष्ठपुर उदरपृष्ठादिरूपं तन्मडभं न्यूनाधिकामागं तद्वामनम् / कुब्जमधस्तनकायमडभं वामन विपर्ययाद्भावनीयम् / नवरमधस्तनकायशब्देन पाणिपादशिरोग्रीवमिहोच्यते / सर्वत्रासंस्थितं हुण्ड, यस्य हि प्रायेणेकोऽप्यवयवः शरीरलक्षणोवतं प्रमाणं न संवदति तत्सर्वत्रामंस्थितं हुण्डमिति / उक्तं च-"तुल्ल वित्थडबहुलं, उस्सेहबहुं च मउहको च / हेडिल्लकायमउहं, सव्वत्थासंठियं हुडं // 1 // ' इत्येतद्यथाक्रमं पण्णामपि लक्षणमितीदं षड्विधं संस्थानं यदुदयाद्भवति शरीरे तदपि कर्म तदभिधानं षड्विधं संस्थाननाम 8 / वर्णः पश्चविधः प्रसिद्धस्वरूपः; स यदुदयाच्छरीरपुद्गलेषु भवति तत्पञ्चविधं कृष्णनामादि वर्णनाम 9 / एवं गन्धो द्विविधः, रसः पञ्चविधः, स्पर्शश्वाष्टविधः, प्रसिद्धस्वरूप एव / तन्नामान्यपि कर्याणि तथैव वाच्यानि 10 / 11 / 12 / द्विसमयादिना विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाटीहानुपूर्वीत्युच्यते, तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी / सा चतुर्विधा / नरकगतिनामकर्मप्रकृतेः सहचरितानुपूर्वी नरकगत्यानुपूर्वी, तया सह वेद्यमानत्वात्तत्सहचरितत्वम् तथा तिर्यङ्मनुष्यदेवानुपूर्दोऽपि वाच्याः 13 / गमनं गतिः, सा चेह पादविहरणाधात्मिका देशान्तरप्राप्तिहेतुद्वीन्द्रि यादीनां प्रवृत्तिरभिधीयते, नैकेन्द्रियाणां, पादाद्यभावात् / विहायसा गतिविहायोगतिः / ननु च विहायसः सर्वगतत्वात्ततोऽन्यत्र गतिर्न संभवति, ततश्च व्यवच्छेद्याभावाद्विहायसा विशेषणमनर्थकम् , सत्यमेतत् , नभसोऽन्यत्र गतिर्नास्ति तथाऽपि यदि गतिरित्येवोच्येत, ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्या शास्यात् , अतस्तद्वयवच्छेदार्थ 'विहायोग्रहणं कार्यम् / विहायसा गतिः प्रवृत्तिर्न तु भवगतिर्नरकगत्यादिकेति / सा च द्विविधा, प्रशस्ताऽप्रशस्ता च / प्रशस्ता गजहंसवृषभादीनाम् , अप्रशस्ता तूष्टखरटोलादीनामिति, तद्विपाकवेद्या कर्मप्रकृतिरपि तन्नामिकैव द्विविधा 14 / इत्युक्ताः पिण्डप्रकृतयः // सन्त्युष्णाभितप्ताः छायाद्यभिसर्पणेनोद्विजन्ते तस्मादिति त्रसा द्वीन्द्रियादयः, तत्पर्यायविपाकवेद्यं कर्मापि त्रसनाम 15 / उष्णाद्यभितापेऽपि स्थानशीला न तत्परिहारसमर्थाः 1 “विहायसो” इति वा पाठः।