________________ 310 ] कर्मस्तवाल्ये द्वितीय कर्मग्रन्थे परिणमनकारणत्वं वाच्यम् / यावद्यस्य कर्मण उदयात्कार्मणवर्गणापुद्गलान गृहीत्वा कार्मणशरीरत्वेन परिणमयति तत्कार्मणशरीरनामकर्म, तच्च कार्मणशरीरादन्यत्। सत्यपि समानवर्गणापुद्गलात्मकत्वेतद्धि नाम्नः कर्मण उत्तरप्रकृतिः। कार्मणशरीरं पुनस्तदुदयनिर्वय॑मशेषकर्मणां प्ररोहभूमिराधारभूतम् / तथा संसार्यात्मनां गत्यन्तरसंक्रमणे साधकतमं करणमित्यन्यत् . ततस्तत्कारणभूतं कार्मणशरीरनामकर्मेति स्थितम् 3 / अङ्गानि शिरउरउदरपृष्ठवाहूरसंज्ञकान्यष्टौ / तदवयवभूतानि त्वगुल्यादीन्युपाङ्गानि / शेषाणि तु तत्प्रत्यवयवभूतान्यगुलिपवेरेखादीन्यङ्गोपाङ्गानि / अङ्गानि चोपाङ्गानि चाङ्गोपाङ्गानि चेति द्वन्द्वगर्भादेकशेषादङ्गोपाङ्गानि. तानि च यस्य कर्मण उदयात्रिषु शरीरेषु भवन्ति, तत्रिविधमङ्गोपाङ्गनाम / तत्र यदुदयादौरिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभक्त्या परिणतिः तदोदारिकशरीराङ्गोपाङ्गनाम / एवं वैक्रियाहारकाङ्गोपाङ्गनाम्नोरपि वाच्यम् / तैजसकार्मणयोस्तु, जीवप्रदेशसंस्थानानुरोधित्वान्नास्यङ्गोपाङ्गसंभवः 4 : पूर्वगृहीतरौदारिकपुद्गलैः सह परस्परं च गृह्यमाणानौदारिकपुद्गलानुदितेन येन कर्मणा बध्नात्यात्माऽन्योऽन्यसंसक्तान् करोति तदौदारिकशरीरबन्धननाम, दारुपाषाणादीनां जतुरालाप्रभृतिश्ले"प'द्रव्य" वत् / एवं वैक्रियादि चतुष्केऽपि वाच्यम् / यदि त्विदं शरीरपश्चकपुद्गलानामन्योऽन्यसंबन्धकारि बन्धनपञ्चकं न स्यात्ततस्तेषां शरीरपरिणतौ सत्यामप्यसंबद्धत्वान्पवनाहतकुण्डस्थितास्तीमितसक्तूनाभित्रैकत्रस्थैर्य न स्यात् 5 / तच्च बन्धनमसंहतानां न संभवति, अतस्तत्पिण्डनकारणं पञ्चविधं सङ्घातनाम / तथैवौदारिकसङ्घातनामादि / तत्र यस्योदयादौदारिकशरीरत्वपरिणतान पुद्गलानात्मा सङ्घातयति-पिण्डयति तदौदारिकसङ्घातनाम / वैकियादिचतुष्केऽप्येवमेव वाच्यम् 6 / संहननमस्थिसंचयः, तच्चोहारिकशरीर एव, नान्येपु, तेषामस्थ्याधभावात् / तच्च पोढा, वर्षभनाराचादि / तत्र वज्र कीलिका, ऋषभः परिवेष्टनपट्टः, नाराच उभयतो मर्कटवन्धः / यत्र द्वयोरस्टनोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थमा परिवेष्टितयोरुपरि तदस्थित्रययेदि कीलिकाकारं वज्रनामकमस्थि भवति तद्व भनाराचं प्रथमम् / यत्र तु कीलिका नास्ति तदृषभनाराचं द्वितीयम् , ऋषभवर्ज वज्रनाराचं द्वितीयमित्येके / वज्र भवर्ज नाराचं तृतीयम् / एकतो मर्कटबन्धं द्वितीयपार्वे कीलिकाविद्धमर्द्धनाराचं चतुर्थम् / ऋषभनाराचवर्ज कालिकाविद्धास्थिद्वयसंचितं कीलिकाख्यं पञ्चमम् / अस्थिद्वयपर्यन्तसंस्पर्शलक्षणां सेवामृतमागतं सेव तं षष्ठम् / इतीदं षड्विधस्थिसंनिचयात्मकं संहननं यदुदयाद्भवति शरीरे तदपि तत्संज्ञक पविधं संहनननामकर्म 7 / संस्थानं शरीराकृतिरवयवरचनात्मिका तदपि पोढा, समचतुरस्रादि / तत्र समाः शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत्सम: चतुरस्रम् / 'सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदा' (पाणि 1 द्रव्याणां तुल्यम्” इति वा पाठः //