________________ प्रकृतिवर्णना [101 नीयम् 6 / यदयेन बियविप्रयोगादिपीडितचित्तः शोचनाऽऽक्रन्दपरिदेवनादि करोति तच्छोकवेदनीयम् 7 / यदुदयेन स नमित्तमनिमित्तं वा बिभेति तद्भयवेदनीयम् 8 / यदुदयेन शकृदादिवीभत्सपदार्थभ्यो जुगुप्सते उद्विजते तज्जुगुप्सावेदनीयम् 9 / इत्युक्ता नोकषायाः, तदभिधानाचारित्रमोहनीयं च 2 मोहनीयं चाष्टाविंशतिविधमिति 4 // एति याति चेत्यायुः, नरुक्तीशब्दव्युत्पत्तिः / यद्यपि च सर्व कर्म स्वहेतुभिर्नियमादपूर्वमेत्यात्मानं, पूर्वबद्धं च यात्यपत्यात्मनस्तथाप्ययमम्त्यायुषो विशेषः / प्राग्भवबद्धमात्मनो यदा यात्यपैति तदा तदपगमानन्तरं वर्तमानभवबद्धमुदयमेति एति याति चेत्यनया व्युत्पत्त्या, तदेवेदृशं गमनागमनं विवक्षितमित्यसाधारणमायुषो नाम, तच्चतुर्धा / नारकस्य सतो वेद्यमायुष्कम् नारकायुष्कम् 1 / तिरश्चां तिर्यगायुष्कम् 2 / मनुष्याणां मनुष्यायुष्कम् 3 / देवानां देवायुष्कम् 4 इत्युक्तं चतुर्विधमायुष्कम् 5 // तथा नामयति परिणमयत्यात्मानं तेस्तैर्गत्यादिभिः पर्यायेरिति नाम / गच्छन्ति प्राप्नुवन्ति तथाविधकर्मोदयसचिवा जीवास्तामिति गतिः / नारकादिपर्यायपरिणतिस्तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः, सैव नाम गतिनाम / नारकशब्दव्यपदेश्यपर्यायनिवन्धनं नारकगतिनाम एवं तिर्यङ्मनुष्यदेवगतिनामापि वाच्यम् 1 / जननं जातिरेकेन्द्रियादिशब्दव्यपदेश्येन पर्यायेण जीवानामुत्पत्तिः, तद्भावनिवन्धनभूतं नाम जातिनाम, तत्पश्चधा, एकेन्द्रियजातिनामादि / तत्रैकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशमात्तदेकविज्ञानभाज एकेन्द्रियाः अनेनैवाभिलापेन द्वयोः स्पर्शनरसनज्ञानयोीन्द्रियाः / त्रयाणां स्पर्शनरसनघ्राणज्ञानानां त्रीन्द्रियाः / चतुर्णा स्पर्शनरसनधाण चक्षुर्ज्ञानानां चतुरिन्द्रियाः / पञ्चानां स्पर्शनरसनघाणचतुःश्रोत्रज्ञानानामावरणक्षयोपशमात्पञ्चविज्ञानभाजः पञ्चेन्द्रियाश्च वाच्याः / एकेन्द्रियाणां जातिनामैकेन्द्रियजातिनाम, एवं यावत्प. ञ्चेन्द्रियजातिनाम / ननु चैकादीन्द्रियज्ञानावरणक्षयोपशमादेवैकेन्द्रियादिव्यपदेशः सिद्धयत्येव तत्किमपरं जातिनाम्ना कार्यम् ?, नैतदस्ति, क्षयोपशमस्य ज्ञानोत्पादनमात्रनिबन्धनत्वेनेकेन्द्रिया. दिव्यपदेशहेतुत्वायोगात् / किञ्चैकेन्द्रियजात्यादिनामोदयजनितस्यैकेन्द्रियादिशब्दव्यपदेशहेतोः पर्यायविशेषस्याभावे क्षयोपशमं प्रति नियमो न स्यात् , ततश्च पृथिव्यादीनां शङ्खादीनां (पिपीलिकादीनां) चैकद्विव्यादीन्द्रियज्ञानावरणक्षयोपशमोऽप्यनियमेन स्यात्तस्माजातिनामोदयकृतः पर्यायविशेषस्तथातथाक्षयोपशमस्य नियामक एकेन्द्रियादिव्यपदेशहेतुश्चेति स्थितम् 2 / शीर्यते तदिति शरीरं, प्रतिक्षणं प्रागवस्थातश्चयापचयाभ्यां विनश्यतीत्यर्थः / तच्च पञ्चविधैरोदाकादिवर्गणापुद्गलैः क्रियत इति तद्भेदात्पश्चधा, औदारिकशरीरादि, तद्विपाकवेद्यं कर्मापि तन्नामकं पञ्चधैव / तत्र यस्य कर्मण उदयादौदारिकवर्गणपुद्गलान् गृहीत्वौदारिकशरीरत्वेन परिणमयति तदौदारिकशरीरनाम / एवं वैक्रियाहारकतैजसकार्मणशरीरनामकर्मस्वपि स्वस्ववर्गणापुद्गलग्रहण