________________ 108] कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे कवेद्यं कर्म सम्यग्मिथ्यात्वम् 2 / तथा सम्यक्त्वमविपर्यस्तत्वं तत्त्वदर्शनस्य यथा यदहन प्राह तथैव तत् , इत्येवंरूपं, तत्व 'श्रद्दधोनत्वम् , एतत्परिणामपरिणतेनात्मना यव द्यते तदर्शनमोहन यं कर्म, तदपि सम्यक्त्वमिति 3 / 1 / तथा चारित्रं सावद्ययोगविरतिलक्षणो जीवपरिणामः तन्मोहयतीति चारित्रमोहनीयम् / तत्र षोडश कषायाः / कषायशब्दः प्रागुक्तार्थ एव / तत्रानन्तं संसारमनुबध्नन्ति अनुसंदधति तच्छीलाश्चेत्यनन्तानुबन्धिनः / यद्यपि चैतेषां शेषकषायरहितानामुदयो नास्ति, तथाऽप्यवश्यमनन्तसंसारमौलकारणमिथ्यात्वोदया क्षेपित्वादेतपामेवेष व्यपदेशः / शेषकषाया हि नावश्यं मिथ्यात्वोदयमाक्षिपन्ति, अतस्तेषामुदययोगपद्ये सत्यपि नायं व्यपदेशः, इत्यसाधारणमेतेषामेवैतन्नामधेयम् / ते च चत्वारः / क्रोधोऽक्षान्तिपरिणतिलक्षणः / मानो गर्यो जात्यायुद्भवममार्दवम् / माया वञ्चनप्रतिकुञ्चनाद्यात्मिका परिणतिः / लोभोऽसंतोषात्मको गार्य परिणामः / तद्विपाकवेद्याः कर्मप्रकृतयोऽपि तन्नामधेयाः / इत्येते क्रोधादयो यथासङ्खय पर्वतरेखाशेलस्तम्भवंशीमूलकृमिरागसमाना यावज्जीवानुवन्धिनो जीवपरिणामविशेषा अनन्तानुवन्धिन इत्यवसेया इति 4 // त एव च क्रोधादयो यथाक्रम पृथिवीरेखाऽस्थिमेषशृङ्गकर्दमरागसमानाः संवत्सरानुवन्धिनोऽप्रत्याख्यानावरणाः, नोऽल्पार्थत्वादल्पं प्रत्याख्यानं अप्रत्याख्यानं देशविरत्याख्यं तदाकृण्वन्ति ये ते तथोक्ताः 4 / त एव क्रमेण रेणुरेखाकाष्ठगोमूत्रिकाखञ्जनरागसमानाश्चतुर्मासानुबन्धिनः प्रत्याख्यानावरणाः, प्रत्याख्यानं सर्वविरत्याख्यमावृण्वन्तीतिकृत्वा 4 / त एव क्रमशो जलरेखातिनिसलंताअवलेखहरिद्रारागसमानाः पक्षानुबन्धिनः संज्वलनाः, संज्वलयन्त्युदयेन चारित्रिणमपीति संज्वलनाः 4 / इत्युक्ताः षोडश कषायाः। नव नोकपाया इति, नोशब्दः साहचर्यार्थः / कषायैः सहचरा नोकपायाः / केवलानां नैषां प्रधान्यं, किन्तु कषायैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति बुधग्रहवदन्यसंसर्गमनुवर्तन्ते / तत्र वेदत्रये-यदुदयेन स्त्रियाः पुस्यभिलाषः पित्तोदयेन मधुराभिलाषवत् , स फुम्फुमानिसमानः स्त्रीवेदः 1 / यदुदयेन पुसः स्त्रियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत् , स तृणाग्निज्वालासमानः पुवेदः 2 / यदुदयेन पण्डकस्य स्त्रीपुसयोरुभयोरभिलाषः पित्तश्लेष्मणोरुदयेन मर्जि(जि)काभिलाषवत् , स महानगरदाहाग्निसमानो नपुसकवेदः 3 / यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म हास्यवेदनीयम् 4 / 'यदुदयेन रमणीयेषु वस्तुषु रमते प्रमोदते तद्रतिवेदनीयमिति 5 / ततो विपरीतमरतिवेद 1 "श्रद्धानत्व-” इति वा पाठः // 2 “यापेक्षित्वा" इत्यपि // 3 "फुम्फकाग्नि" इति वा पाठः / 4 "यदुदयेन सचित्ताचित्तेषु बाह्यद्र-येषु जीवस्य रतिरुत्पद्यते तद्रतिवेदनीयं कर्म 5 / यदुदयेन तेष्वेवारतिस्त्पद्यते तदरतिवेदनीयं कर्म 6 / यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिशोको जायते तच्छोकवेदनीयं कर्म 7 / यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादि सप्तप्रकार भयमुत्पद्यते तद्भयवेदनीयं कर्म 8 // " इति वा पाठः॥