________________ प्रकृतिवर्णना [ 107 तस्य वा घूर्णमानस्य स्वप्तुर्भवति, तथाविधविपाकवेद्या कर्मप्रकृतिः प्रचलेति 3 / तथैव प्रचलाऽतिशायिनी प्रचला प्रचलाप्रचला, सा हि चक्रमणादि कुर्वतः स्वप्तुर्भवति, अतः स्थानस्थितस्वप्तृभवां प्रचलामपेक्ष्यातिशायिनी, तद्विपाका कर्मप्रकृतिरपि प्रचलाप्रचला 4 / स्त्याना बहुत्वेन सङ्घातमापन्ना गृद्धिरभिकाङ्क्षा जाग्दवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः / तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति। स्त्याना वा पिण्डीभृता ऋद्धिरात्मशक्तिरूपा 'अस्यामिति स्त्यानद्धिरित्यप्युच्यते, तद्भावे हि स्वप्तुःप्रथमसंहननस्य केश: : बलसदृशी शक्तिर्भवति / प्रसिद्धं चैतदागमे-भिक्षार्थमन्यग्रामं गतस्य क्षुल्लकस्यागच्छतो न्यग्रोध शाखायां शिरः स्खलितम् / ततस्तेन रुषितेन रात्रावेतन्निद्रोदये सा वटशाखा भक्त्वा प्रतिश्रयद्वारे प्रक्षिप्तेत्यादि / अथवा स्त्याना जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानद्धिरिति, तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानद्धिः स्त्यानगृद्धिरिति वा 5 तदेतन्निद्रापञ्चकं दर्शनावरणक्षयोपशमलब्धात्मलाभानां दर्शनलब्धीना मावारकमुक्तम् / अधुना यदर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते-चक्षुषा सामान्यग्राही बोधश्चक्षुर्दर्शनं तस्यावरणं चक्षुदर्शनावरणंम् 6 अचक्षुषा चक्षुर्वन्द्रियचतुष्टयेन मनसा वा यदर्शनं तदचक्षुर्दर्शनं तस्यावरणम् 7 / अवधिना=पि'द्रव्यमर्यादया अवधिरेव वा करणनिरपेक्षबोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणम् 8 तथा केवलमुक्तस्वरूवं तच्च तदर्शनं च तस्यावरणं केवलदर्शनावरणम् है / इत्युक्तं नवविधं दर्शनावरणम् 2 // आरोग्यविषयोपभोगादिजनितमाह्लादरूपं सुखं सातं, तद्रूपेण विपाकेन वेद्यत इति सातवेदनीयम् 1 / तद्विपरीतं दुःखमसातं, तद्रूपेण विपाकेन वेद्यत इत्यसातवेदनीयम् 2 / इत्युक्तं द्विविधं वेदनीयम् 3 // तत्वार्थश्रद्धानं दर्शनं, तन्मोहयति . विपर्यायं गमयतीति दर्शनमोहनीयम् / तत्त्रिविधं, मिथ्यात्वादि / तत्र मिथ्यात्वं त्रिविधम्सांशयिकम् 1 आभिनहिकम् 2 अनाभिग्रहिकं 3 चेति / तत्र सांशयिकं यदिदमुक्तमर्हता तत्त्वं जीवादि, तन्न जाने-तथा स्यात् उतान्यथा ? इत्येवंरुपम् / उक्तं च-“एकस्मिन्नपि तत्वे, संदिग्धे प्रत्ययोऽहति हि नष्टः / मिथ्या च दर्शनं तत् , स चादिहेतुर्भवगतो. नाम् // 1 // " इति 1 / आभिग्रहिकं येन बोटिकादिकुदर्शनानामन्यतमदभिगृह्णाति 2 / अनाभिग्रहिकं अज्ञानां गोपादीनामीपन्माध्यस्थ्याद्वाऽनभिगृहीतदर्शनविशेषा सर्वदर्शनानि शोभनानीत्येवंरूपा या प्रतिपत्तिः 3 / इत्येतेन विविधेन प्रकारेण विपच्यते यत्कर्म तदपि मिथ्यात्वम् 1 / सम्यग्मिथ्यात्वमद्धविपर्यस्त वं दर्शनस्य नेकान्तशुद्धमशुद्धमेव वा तत्त्वश्रदधानत्वं तादृशविपा 1 “यस्या " इत्यपि / 2 "शाखया” इति वा / 3 "रुषितेन गत्वा स्त्यानर्द्धिनिद्रोदये सा' / 4 "मावरण. कमु” इति क्वचित् / / 5 “रूपिमर्यादयः” इत्यपि ! 6 “तत्त्वार्थश्रद्धानत्वं ताशविपाकवेद्य” इत्यपि पाठः /