________________ 106] कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे गृह्यन्तेऽवधिज्ञानावरणमिति 3 / तथा संज्ञिभिर्जीवः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणापुद्गलद्रव्याणि चिन्तनीयवस्तुचिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन परिणमय्यालम्व्यमानानि मनासीत्युच्यन्ते, तेषां मनसां पर्यायाश्चिन्तनानुगुणाः परिणामाः तेषु ज्ञानं मनःपर्यायज्ञानम् / अथवाऽऽत्मभिर्वस्तुचिन्तने व्यापारितानि मनांसि पयति परिगच्छत्यवतीति मनःपर्यायं, 'कर्मण्यण' (पाणि०३-२-१) तस्य कथंचित्कर्तुरनन्यत्वात्क त्वम् / कर्ता वाऽऽत्मा यथोक्तानि मनांसि पर्येति अनेनेति मनःपर्यायम् / 'अकर्तरि च' इत्यादिना धनू / तत्पुनस्तदावरणक्षयोपशमजो लब्धिविशेषः, तदुपयोगो वा विषयग्रहणात्मक इति / तच्च तद् ज्ञानं च मनःपर्यायज्ञानम् / तच्च द्विविधम्-ऋजुमति विपुलमति चेति / ऋज्वी साक्षात्कृतेष्वनुमितेषु वाऽर्थेष्वल्पतरविशेषविषयतया मुग्धा मतिविषयपरिच्छित्तिर्यस्य तजुमति / तदितरा विपुला मतिर्यस्य तद्विपुलमति / तत्रजु मतेर तृतीयाङ्गुलहीनो मनुष्यलोकः क्षेत्रतो विषयः, स एव विपुलमतेः संपूर्णो निर्मलतरः / कालतस्त्वेतावति क्षेत्रे भूतभाविनोः पल्योपमासङ्ख्येयभागयोरतीतानागतानि, संज्ञिमनोरूपाणि मूर्त्तद्रव्याणि, तान्येव च द्रव्यतोऽपि / भावतस्तु तत्पर्यायाश्चिन्तनानुगुणाः परिणतिरूपा ऋजुमतेविषय इति / चिन्तनीयं तु मूर्तममूर्त वा त्रिकालगोचरमपि बाह्यमर्थमनुमानादवैति, न साक्षात् / यत एतत्परिणतान्येतानि मनोद्रव्याणीत्येतदन्यथानुपपत्तेरमुकोऽनेनार्थश्चिन्तित इति लेखाक्षरदर्शनात्तदुक्तार्थमिवाप्रत्यक्ष मनोद्रव्यदर्शनाच्चिन्त्यमर्थमनुमिमीते / स चैष बाह्याभ्यन्तररूपो द्विविधोऽपि विषयः स्फुटतरवहुतरविशेषाध्यासितत्वेन विपुलमतेर्विमलतरोऽवसेयः / तदेवमेतयो योरपि मनःपर्यायमेदयोरावरणस्वभावं कर्मापि द्विविधमेव, तदेकग्रहणेन गृह्यते मनःपर्यायज्ञानावरणमिति 4 / केवलज्ञानं प्रागुक्तस्वरूवं तस्यावरणं केवलज्ञानावरणम् 5 / इत्युक्तं पञ्चविधं ज्ञानावरणम् 1 // सामान्यविशेषात्माके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनं तस्यावरणस्वभावं कर्म दर्शनावरणम् | तन्नवविधम् / तत्र निद्रापञ्चकं तावत् 'द्रा' कुत्सायां गतौ / नियतं द्राति कुत्सितत्व'मविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था, नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते 1 / तथा निद्रातिशायिनी निद्रा निद्रानिद्रा, शाकपार्थिवादित्वान्मध्यपदलोपी समासः / सा पुनदुःखप्रबोधा स्वापावस्था तस्या ह्यत्यर्थमस्फुटतरीभूतचैतन्यत्वादुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवति, अतः सुखप्रबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम् , तद्विपाकवेद्या का प्रकृतिः कार्यद्वारेण निद्रानिद्रेत्युच्यते 2 / उपविष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वप्ता स्वापावस्थायामिति प्रचला, सा ह्युपविष्टस्योर्ध्वस्थि 1 "मविस्फुटत्वं” इति वा पाठः / /