________________ प्रकृतिवर्णना तदाभिनिंबोधिकज्ञानावरणमेकग्रहणेन गृह्यते 1 / तथा श्रवणं श्रुतं अभिलापप्लावितार्थग्रहणप्रत्य- योपलब्धिविशेषः, ततस्तेन तदेव वा ज्ञानं श्रुतज्ञानम्। तच्च संक्षेपतश्चतुर्दशविधमक्षरश्रुतादि / तत्राक्षरश्रुतं त्रिविधम्--संज्ञा 1 व्यञ्जन 2 लब्धि 3 भेदात् / तत्र संज्ञाक्षरं लेख्यलिपिरूपम् , यथा-ठकारो घटाकृतिः, घटीरूपो धकार इत्यादि / व्यञ्जनाक्षरं भाषाशब्दस्तदेतद् द्वितयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतम् / लब्ध्यक्षरं तु शब्दश्रवणरूपदर्शनादेरर्थप्रत्यायनगर्भाक्षरोपलब्धिः 1 अनक्षरश्रुतं श्वेडितशिरःकम्पादिनिमित्तं मामाह्वयति वारयति वेत्यादिरूपमभिप्रायादिपरिज्ञानम् 2 / समनस्कस्य मनःसहायरिन्द्रियैर्जनितमुक्तलक्षणं श्रुतं संज्ञिश्रुतम् 3 / तदेव मनोरहितेन्द्रियजमसंज्ञिश्रुतममनस्कस्य 4 / सम्यग्दृष्टेरर्हत्प्रणीतमितरद्वा श्रुतं यथास्वरूपावगमात् सम्यक्श्रुतम् 5 / तदेव मिथ्यादृष्टेमिथ्याश्रुतम् , अन्यथाऽवगमात् 6 / सादिश्रुतं ज्ञानात्मकं सम्यग्दृष्टेरज्ञानात्मकं वा सम्यक्त्वच्युतस्य 7 / मिथ्यादृष्टेरलब्धपूर्वसम्यक्त्वस्य तु तदेवानादिश्रुतम् 8 / सपर्यवसितं भव्यानां केवलोत्पत्तौ ध्रुवं पर्यवसानात् 9 / अपर्यवसितमभव्यानां केवलोत्पादानहत्वात् 10 / भिन्ने यदर्थजाते सदृशाक्षरालापकं तद्गमिकम् 11 / असदृशं त्वगमिकम् 12 / अङ्गप्रविष्टमाचारादीन्यङ्गानि 13 शेषं प्रकीर्णको नङ्गप्रविष्टम् 14 / इति चतुर्दशधा श्रुतज्ञानं तस्यावरणस्वभावं कर्म श्रुतज्ञानावरणम् 2 / तथाऽवधानमवधिरिन्द्रियाद्यनपेक्षात्मनः साक्षादर्थग्रहणम् , अवधिरेव ज्ञानमवधिज्ञानम् / अथवाऽवधिर्मर्यादा तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् / इत्येक एव समासशब्दो विग्रहद्वयनिष्पन्नः स्वमर्थमन्यव्यतिरिक्तमाह, मतिश्रुते तावदिन्द्रियमनोजनिते, तयोः प्रथमेन विग्रहेण व्यतिरेकः, द्वितीयेन तु मनःपर्यायकवलयोः एकस्य सर्वरूपिमर्यादया ज्ञानत्वासंभवात् , द्वितीयस्य तु रूप्यरूपिविषयत्वात् / यत्त्ववधिज्ञानं तस्य सर्वरूपिमर्यादयापि विषयः संभवतीति मनःपर्यायकेवलयोस्ततो व्यतिरेकः / तद्भवप्रत्ययं नारकदेवानां गुणप्रत्ययं मनुष्यतिरश्वाम् / एतच्च पोढा, अनुगाम्यादि / तत्र अनुगामि यद्देशान्तरगतमपि ज्ञानिनमनुगच्छति लोचनवत् 1 यत्तु तद्देशस्थस्यैव भवति स्थानरथदीपवत् , तद्देशनिवन्धनक्षयोपशमजन्यत्वात् , देशान्तरगतस्य त्वति तदननुगामीति 2 / अवस्थितं यन्न प्रतिपतति, आदित्यमण्डलवत् 3 / अनवस्थितं यत्प्रतिपतति, लपणसमुद्रवेलावत् 4 / हीयमानकं यजवन्ये नाङ्गुलासङ्खथे यभागविषयमुत्कर्षण सर्वलोकविपयमुत्पद्य पुनः स क्लेशवशात्क्रमेण हानि विषयसंकोचात्मिकां याति, यावदमुलासङ्ख्य यभागस्ततोऽपि प्रतिपतति, येन त्वलोकस्य प्रदेशोऽपि दृष्टस्तस्य न हीयते 5 / वर्धमानकं यदगुलासङ्खथे यभागादिविषयमुत्पद्य पुनवृद्धिं विषयविस्तरणात्मिकां याति, यावदलोके लोकप्रमाणान्यसङ्खये यानि खण्डानि 6 / इति षड्विधमवधिज्ञानम् / तस्य च जघन्योत्कृष्टमध्यमक्षेत्रविषयासवय यत्ववशादसझे यया भेदाः, तेषामावरणस्वभावानि एतावन्त्येव कर्माणि, तानि चैकग्रहणेन