________________ 102 ] कर्मस्त्वाख्ये द्वितीये कर्म ग्रन्थे अयोगिकेवलिनो द्वासप्ततिढेिचरमे समये क्षीणा / द्वौ चामावस्मादिति द्विचरमः, तद्गुणसंविज्ञानेन बहुव्रीहिणा चरमात्पूर्वोऽनन्तरसमय उच्यते / 'तेरस चरिमे अजोगिणो खीणे' इति त्रयोदश चरमे समये कर्माण्ययोगिकेवलिनः क्षीणानि | यावद्विचरमसमयस्तावत्पूर्वोक्तायाः पश्चाशीतेः सत्ता / चरमसमये तु द्विचरमसमयक्षीणायां द्वासप्ततौ पञ्चाशीतरपनीतायां शेषाणां त्रयोदशानां सत्ता / तदेवं च 'अडयालं पयउिसयं, ग्वविय जिणं निव्वुयं वंदे इति, पूर्वभवक्षीणमायुस्त्रयमविरताद्यप्रमत्तान्तगुणन्थानक्षीणे दर्शनसप्तके क्षिप्तं जाता दश / तेऽप्यनिवृत्तिबादरसम्परायक्षीणे पोडशके क्षिप्ता जाता षड्विंशतिः / तम्या तत्रैव क्षीणमष्टकं क्षिप्तं जाता चतुस्त्रिंशत् / तस्यां तत्रैव क्रमेण क्षीणो द्वावेकको क्षिप्तौ जाता षट्त्रिंशत् / तस्यां तत्रैव क्षीणं षट्कं क्षिप्तं जाता द्विचत्वारिंशत् / तस्यां तत्रैय क्रमेण क्षीणाश्चत्वार एककाः क्षिप्ता जाता पटचत्वारिंशत् / तस्यां सूक्ष्मसम्परायक्षपित एकः क्षिप्तो जाता सप्तचत्वारिंशत् / तस्यां क्षीणमोहक्षपितं द्वयं क्षिप्तं जातकोनपश्चाशत् / तस्यां तत्क्षपितमेव चतुर्दशकं क्षिप्तं जाता त्रिषष्टिः / साऽप्ययोगिकेवलिक्षपितायां द्विसप्ततौ क्षिप्ता जातं पश्चत्रिंशं शनम् / तत्र तत्क्षपितमेव त्रयोदशकं क्षिप्तं जातमष्टचत्वारिंशं शतमिति / तदेवमष्टचत्वारिंशं प्रकृतिशतं क्षपयित्वा जिनो निर्वृतः, तमेवंविधं जिनमहं वन्दे // 8 // इत्युक्तः सत्ताव्यवच्छेदोद्देशः / इदानी बन्धादिव्यवच्छेद्रोद्देशेषद्दिष्टानां पोडशादीनां प्रकृतिसंख्यानां प्रतिनिर्देशाय मूलप्रकृत्युत्तरप्रकृतीर्दर्शयितुमाह नाणस्स दंसणस्स य, आवरणं वेयणीयमोहणियं / आउयनामं गोयं, तहतरायं च पयडीओ // 9 // पंच नव 'दोन्नि अट्ठा-वीसा चउरो तहेव बायाला। 'दोण्णि य पंच य भणिया, पयडीओ उत्तरा चेव // 10 // गाथे युगपद्वयाख्यायेते-ज्ञानस्यावरणं पञ्चविधं भवति / तद्यथा-आभिनियोधिकज्ञानावरणं 1 शतज्ञानावरणं 2 अवधिज्ञानावरणं 3 मनःपर्यायज्ञानावरणं 4 केवलज्ञानावरण 5 मिति // दर्शनस्यावरणं नवविधम् / तद्यथा-निद्रा 1 निद्रानिद्रा 2 प्रचला 3 प्रचलाप्रचला 4 स्त्यानर्द्धिः 5 चक्षुर्दर्शनावरणं 6 अचक्षुर्दर्शनावरणं 7 अवधिदर्शनावरणं 8 केरलदर्श वरणं 9 चेति 2 // वेदनीयं द्विविधम्-सातवेदनीयं 1 असातवेदनीयं 2 चेति 3 // मोहनीयमष्टाविंशतिविधम् / तिस्रो दर्शनमोहनीयप्रकृतयः-मिथ्यात्वं 1 सम्यग्मिथ्यात्वं 2 सम्यक्त्वं 3 चेति / पञ्चविंशतिश्चारित्रमोहनीयप्रकृतयः / तद्यथा-षोडश कषायाः 16 नव नोकषायाः 25 / तत्र कषायाः-अनन्तानुबन्धी क्रोधो मानो माया लोभश्च 4, अप्रत्याख्यानावरणः क्रोधो मानो 1-2 "दुन्नि" इत्यपि पाठः।