________________ मूलोत्तरप्रकृतिसमुत्कीर्तना [ 103 माया लोभश्च 8, प्रत्याख्यानावरणः क्रोधो मानो माया लोभश्च 12, संज्वलनः क्रोधो मानो माया लोभश्च 16 इति पोडश कपायाः / नव नोकषायास्तु-वेदत्रयं हास्यादिपट्कं च / वेदत्रयम्-स्त्रीवेदः 1 पुवेदः 2 नपुंसकवेदः 3 इति / हास्यादिषट्कं च-हास्यं 1 रतिः 2 अरतिः 3 शोकः ४भयं 5 जुगुप्सा 6 इत्यष्टाविंशतिधा मोहनीयमुक्तम् 4 // आयुष्कं चतुर्धा-नारकायु कम् 1 तिर्यगायुष्कम् 2 मनुष्यायुष्कम् 3 देवायुष्क 4 मिति 5 // 'नाम द्विचत्वारिंशद्भेदम् / तद्यथा चतुर्दश पिण्डप्रकृतयः 14, अष्टाविंशतिः प्रत्येकप्रकृतयः 28 इति द्विचत्वारिंशत् / पिण्डप्रकृतयस्तावत्-गतिनाम 1 जातिनाम 2 शरीरनाम 3 शरीराङ्गोपाङ्गनाम 4 शरीरबन्धननाम 5 शरीमङ्घातननाम 6 संहनननाम 7 संस्थाननाम 8 वर्णनाम 9 गन्धनाम 10 रसनाम 11 स्पर्शनाम 12 आनुपूर्वी नाम 13 विहायोगतिनाम 14 इति चतुर्दश / एतासां तावद्भेदा दर्श्यन्ते / गतिनाम चतुर्विधम्-नारकगतिनाम 1 तिर्यग्गतिनाम 2 मनुष्यगतिनाम 3 देवगतिनाम 4 इति / जातिनाम पञ्चविधम्-एकेन्द्रियजातिनाम 1 द्वीन्द्रियजातिनाम 2 त्रीन्द्रियजातिनाम 3 चतुरिन्द्रियजातिनाम 4 पञ्चेन्द्रियजातिनाम 5 इति / शरीरनाम पञ्चविधम्-औदारिकशरीरनाम 1 वैक्रियशरीरनाम 2 आहारकशरीरनाम 3 तेजसशरीरनाम 4 कार्मणशरीरनाम 5 इति / अङ्गोपाङ्गं त्रिविधम्-औदारिकाङ्गोपाङ्गम् ? क्रियाङ्गोपाङ्गम् 2 आहारकाङ्गोपाङ्गं 3 चेति / बन्धनं पञ्चविधम्-औदारिकबन्धनादि शरीरवत् 5 / सङ्घातनामापि तथैव 5 / संहनननाम पड्विधम्-वज्रर्षभनाराचम् 1 ऋषभनाराचम् 2 नाराचम् 3 अर्द्धनाराचम् 4 कीलिका 5 सेवाः 6 चेति / संस्थाननाम पड्विधम्-समचतुरस्रम् 1 न्यग्रोधपरिमण्डलम् 2 'सादि 3 वामनम् 4 कुब्नं 5 हुण्डं 6 चेति / वर्णनाम पञ्चविधम्-कृष्णम् 1 नीलम् 2 लोहितम् 3 हारिद्रम् 4 शुक्लं 5 चेति / गन्धनाम द्विविधम्-सुरभिनाम 1 दुरभिनाम 2 चेति / रसनाम पञ्चविधम्-तिक्तम् 1 कटुकम् 2 कषायम् 3 अम्लम् 4 मधुरं 5 चेति / स्पर्शनामष्टविधम्-कर्कशम् 1 मृदु 2 गुरु 3 लघु 4 शीतम् 5 उष्णम् 6 स्निग्धम् 7 रूक्षं चेति / आनुपूर्वी चतुर्विधा नरकानुपूर्वी 1 तिर्यगानुपूर्वी 2 मनुष्यानुपूर्वी 3 देवानुपूर्वी 4 चेति / विहायोगतिविविधा-प्रशस्तविहायोगतिः / अप्रशस्तविहायोगति 2 श्चेति / इत्येताश्चतुर्दश पिण्डप्रकृतयः / प्रभेदाग्रमेतासां पश्चषष्टिरिति 65 / प्रत्येकप्रकृतयस्त्विमाः-त्रसनाम 1 स्थावरनाम 2 बादरनाम 3 सूक्ष्मनाम 4 पर्याप्तकनाम 5 अपर्याप्तकनाम 6 प्रत्येकनाम 7 साधारणनाम 8 स्थिरनाम 9 अस्थिरनाम 10 शुभनाम 11 अशुभनाम 12 सुस्वरनाम 13 दुःस्वरनाम 14 सुभगनाम 15 दुर्भगनाम 16 आदेयनाम 17 अनादेयनाम 18 यश-कीर्तिनाम 19 अयशःकीर्त्तिनाम 20 अगुरुलघुनाम 1. “दिदानीं नाम मण्यते, तद्दि वचत्वारिंशद्विधम् / " इति वा पाठः / 2 "साति 3" इत्यपि / 3 "द्विधा" इति वा / 4 "माष्टधा" इति वा पाठः / /