________________ - मनामधिकृत्य गुणस्थानकेषु व्यवच्छिदामानप्रकृतिसह ख्यादि . [ 101 मंभवनि, अस्याः सुरनाकतिर्यगायुष्कसंभवापेक्षणीयत्वात् , जिनस्य च तदस भवात्तस्यापि वा प्राग्भवापेक्षया संभवो भाव्यः / इदानीं जिनस्य क्षपकश्रेण्यामपूर्वकरणादिषु प्रकृतिसत्ताऽनुवपर्यते / उपशमश्रेणी सत्तायास्त्विह नाधिकारः / तत्रापूर्वकरणगुणस्थाने स्वस्वभवव्यवच्छिन्नानि देवनारकतिर्यगायपि त्रीण्यविरताद्यप्रमत्तसंयतावसानगुणस्थानव्यवच्छिन्नं च दर्शनसप्तकमष्टाचत्वारिंशशनादपनीयते, शेषम्याष्टात्रिंशस्य प्रकृतिशतस्य सत्ता // 6 // अधुना त्वनिवृत्तिबादरसम्परायगुणस्थाने प्रकृतिसत्ताव्यवच्छेदमाह मोलस अठेक्केक्कं "छक्केक्कक्केक खीणमनियट्टी। एगं सुहुममरागे, खीणकसाए य सोलसगं // 7 // पोडश 1 अटी 2 एकं 3 एकं 4 'छक्कककक खीणमनिगट्टी' इति, षट् 5 एक 6 एकं 7 एकं 8 एक ह / क्रमेण कर्म क्षीणं 'अनिवृत्तौ' अनिवृत्यद्धायां प्रथमं षोडश कर्माणि श्रीणानि / ततोऽष्टौ तत एकमित्यादिक्रमः / यावदक्षीणं षोडशकं तावत्पूर्वोक्तस्याष्टात्रिंशस्य शतस्य सत्ता / तस्मिन् क्षीणे सत्यष्टात्रिंशशतादपनीते शेषस्य द्वाविंशस्य शतस्य सत्ता / ततोऽप्यष्टके क्षीणे द्वाविंशशतादपनीते शेषस्य चतुर्दशोत्तरस्य शतस्य सत्ता / ततोऽप्येकस्मिन क्षीणे त्रयोदशस्य शतस्य सत्ता / ततः पुनरेकस्मिन् क्षीणे द्वादशस्य शतस्य सत्ता / ततोऽपि षट्के झीणे द्वादशशतादपनीते षडुत्तरशतस्य सत्ता / तस्मादेकस्मिन् क्षीणे पश्चोत्तरशतस्य सत्ता। ततोऽपि द्वितीये पुनरेकस्मिन् क्षीणे चतुरुत्तरशतस्य सत्ता / ततोऽपि तृतीये पुनरेकस्मिन् क्षीणे युत्तरशतस्य सत्ता / ततश्चतुर्थे पुनरेकस्मिन् क्षीणे द्वयु त्तरशतस्य सत्ता / 'एगं सुहमसरागे' इति, सूक्ष्मसरागगुणस्थाने त्वेकं कर्म क्षीणं व्यवच्छिन्नभित्यर्थः / पूर्वोक्तस्य द्वयु त्तरशतस्य सत्ता। 'वीणकसाए य सोलसगं' इति, क्षीणकषायगुणस्थाने पोडशकं कर्मणां क्षीणम् / द्वे कर्मणी द्विचरमसमये, चतुर्दश चरमसमय इति। तत्र यावद्विचरमसमयस्तावत्सूक्ष्मसम्परायक्षीणायामेकस्यां कर्मप्रकृतौ द्वयु त्तरशतादपनीतायां शेषस्यैकोत्तरशतस्य सत्ता / चरमसमये तु द्विचरमसमयक्षीणं द्विकमेकोत्तरशतादपनीयते, शेषाया नवनवतेः सत्ता / सयोगिकेवलिनस्तु क्षीणकषायचरमसमयक्षीणे चतुर्दशके नवनवतेरपनीते शेषायाः पञ्चाशीतेः सत्ता.॥७॥ बावत्तरिं दुचरिमे, तेरस चरिमे अजोगिणो खीणे / अडयालं पयडिसयं, खविय जिणं निव्वुयं वंदे // 8 // 1 "सत्तया त्विह” इत्यपि पाठः / / 2 "अद्विविक्क" इत्यपि पाठः / 3-4 "छक्किक्किक्किक्क खीणमनियट्टी / " इति वा पाठः॥