________________ 10.] कर्मस्तवाख्ये द्वितीये कर्मप्रन्थे रुदीरणा / अनिवृत्तिबादरसम्पराये पण्णां व्यवच्छेदः / अपूर्वकरणव्यवच्छिन्नं षट्कमेकोनसप्ततेरपनीयते, शेषायास्त्रिपष्टेरुदीरणा / सूक्ष्मसम्पराये त्वेकस्याः प्रकृतेरुदीरणाव्यवच्छेदः / अनिवृत्तिबादरसम्परायव्यवच्छिन्ने षट्के त्रिषष्टेरपनीते शेषायाः सप्तपश्चाशत उदीरणा / उपशान्तमोहे द्वयोरुदीरणाव्यवच्छेदः / सूक्ष्मरागव्यवच्छिनायामेकस्यां सप्तपश्चाशतः शोधितायां शेषायाः षट्पञ्चाशत उदीरणा / क्षीणमोहे षोडशानामुदीरणाव्यवच्छेदः / उपशान्तमोहव्यवच्छिन्ने द्वये पट्पश्चाशतः शोषिते शेषायाश्चतुष्पश्चाशत उदीरणा / सयोगिकेवलिन्येकोनचत्वारिंशत उदीरणाव्यवच्छेदः / क्षीणकषायव्यवच्छिन्ने षोडशके चतुष्पञ्चाशतः शोधिते शेषायामष्टाविंशति तीर्थकरनाम्नि प्रक्षिप्ते सत्येकोनचत्वारिंशत उदीरणा / अयोगिकेवली त्वनुदीरक एव // // इति प्रकृत्युदीरणाव्यवच्छेदोद्देशः / प्रकृतिसत्ताव्यवच्छेदोद्देशमाह अणमिच्छमीससम्म, अविरयसम्माइअप्पमत्ता। . सुरनरयतिरियआउं, निययभवे मयजीवाणं // 6 // अनन्तानुबन्धिनश्चत्वारः क्रोधमानमायालोभाः, मिथ्यात्वं, 'मिश्र' सम्यग्मिथ्यात्वमित्यर्थः सम्यक्त्वं इत्येताः सप्त कर्मप्रकृतयोऽविरतसम्यग्दृष्टयाद्यप्रमत्तान्ताः / किमुक्तं भवति ?, एताः प्रकृतयोऽविरतदेशविरतप्रमत्ताप्रमत्तसंयतगुणस्थाना नामन्यतमस्मिन् व्यवच्छिन्नसत्ताका भवन्ति / एता हि सप्त प्रकृतीरेतेषामन्यतमो विशुद्धिवशात् क्षपयतीति / तथा सुरनारकतिर्यगाषि निजकभवे सत्तामधिकृत्य व्यवच्छिन्नानीत्यधिकाराल्लभ्यते / केषाम् ?, इत्याह-सर्वजीवानां क्षपकजिनत्वं प्राप्स्यतामेव. न त्वन्येषामित्यर्थाद्गम्यते / तथाहि-ये जीवाः सुरनारकतिर्यक्षु चरमं तद्भवमनुभूय मनुष्यतयोत्पन्नास्तेषां सुरनारकतिर्यगायपि स्वस्वभवे व्यवच्छिन्नसत्ताकानि जातानि, पुनस्तदनवाप्तः, नान्येषां पुनस्तत्प्राप्तेरिति / अष्टचत्वारिंशं च शतं कर्मप्रकृतीनां सत्तायामधिक्रियते, तच्च दर्शयिष्यामः / तत्र मिथ्यादृष्टेरष्टचत्वारिंशस्यापि शतस्य सत्ता / यदा प्राग्बद्धनारकायुष्कः क्षायोपशमिकं सम्यक्त्वमवाप्य तीर्थकरनाम्नो बन्धमारभते, तदाऽसौ नरकेषुत्पद्यमानः सम्यक्त्वमवश्यं वमतीति मिथ्यादृष्टस्तीर्थकरनाम्नोऽपि सत्ता संभवति / सासादनसम्यग्मिथ्यादृष्टयोस्तस्मिन्नेव तीर्थकरनामरहिते सप्तचत्वारिंशस्य शतस्य सत्ता / तीर्थकरनामसत्कर्मणो जीवस्य तद्भावानवाप्तेः / तद्भन्धारम्भस्य च शुद्धसम्यक्त्वप्रत्ययत्वादित्युक्तं प्राक् / अविरतदेशविरत प्रमत्तसंयताप्रमत्तसंयतानामक्षपितदर्शनसप्तकानामष्टचत्वारिंशस्य शतस्य सत्ता संभवति / तदितरेषां त्वेकचत्वारिंशस्य शतस्येति / इयं चैतेषु गुणस्थानेषु सामान्यजीवानां संभवमधिकृत्य सत्ता वर्णिता, न त्वधिकृतस्तवस्तुत्यस्य जिनस्यैषा सत्ता 1 "सूक्ष्मसम्परायव्यव०" इति वा पाठः 2 "मन्यतरस्मिन्" इत्यपि पाठः।३ "प्रमत्ताप्रमत्तसंयतानाम" इति वा पाठः।