________________ उदयोदीरणे समाश्रित्य गुणस्थानकेषु व्यवछिद्यमानप्रकृतिसङ्ख्या (e शतादपनीय शेषायां नवनवतौ सम्यक्त्वमानुपूर्वीचतुष्कं च प्रक्षिप्यते ततश्चतुरुत्तरशतस्योदयः। देशविरतगुणस्थाने प्रकृत्यष्टकस्योदयव्यवच्छेदः / अविरतसम्यग्दृष्टिव्यवच्छिन्ने सप्तदशके चतुरुत्तरशतादपनीत शेषायाः सप्ताशीतेरुदयः। प्रमत्तसंयतगुणस्थाने पञ्चानामुदयव्यवच्छेदः / देशविरतव्यवच्छिन्नमष्टकं सप्ताशीतेरपनीय शेषायामेकोनाशीतावाहारकशरीरतदङ्गोपाङ्गनाम्नोः प्रक्षिप्तयोरेकाशीतेरुदयः / अप्रमत्तसंयतगुणस्थाने चतसृणां प्रकृतीनामुदयव्यवच्छेदः / प्रमत्तसंयतव्यवच्छिन्नं पञ्चकमेकाशीतरपनीयते शेपायाः षट्सप्ततेरुदयः / अपूर्वकरणगुणस्थाने षण्णां प्रकृतीनामुदयव्यवच्छेदः / अप्रमतव्यवच्छिन्ने चतुष्के षट्सप्ततेरपनीते शेषाया द्वासप्ततेरुदयः / अनिवृत्तिवादरसम्परायगुणस्थाने षण्णां प्रकृतीनामुदयव्यवच्छेदः / अपूर्वकरणव्यवच्छिन्ने षट्के द्वासप्ततेरपनीते शेषायाः षट्पष्टरुदयः / सूक्ष्मसम्परायगुणस्थाने त्वेकस्याः प्रकृतेरुदयव्यवच्छेदः अनिवृत्तिबादरसम्परायव्यवच्छिन्ने षट्के पटप टेरपनीते शेषायाः षष्टेरुदयः / उपशान्तमोहगुणस्थाने द्वयोः प्रकृत्योरुदयव्यवच्छेदः / 'मूक्ष्मसम्परायव्यवच्छिन्नायामेकस्यां प्रकृतौ षष्टेपनीतायामेकोनषष्टेरुदयः / क्षीणमोहगुणस्थाने षोडशानां प्रकृतीनामुदयव्यवच्छेदः / द्वयोद्धिचरमसमये चतुर्दशानां तु चरमसमये उपशान्तमोहव्यवच्छिन्नं द्वयमेकोनषष्टेरपनीयते, शेषायाः सप्तपश्चाशत उदयः / सयोगिकेवलिगुणस्थाने त्रिंशतः प्रकृतीनामुदयव्यवच्छेदः / क्षीणमोहव्यवच्छिन्ने षोडशके सप्तपश्चाशतोऽपनीते शेषायामेकचत्वारिंशति तीर्थकरनाम्नि प्रक्षिप्ते द्वाचत्वारिंशत उदयः / भवस्थायोगिकेवलिगुणस्थाने द्वादशानामुदयव्यवच्छेदः / सयोगिकेवलिव्यवच्छिन्नायां त्रिंशति द्वाचत्वारिंशतः शोधितायां द्वादशानामुदयः / सिद्धकेवली त्ववेदकः // 4 // इति प्रकृत्युदयव्यवच्छेदोद्देशः / इदानीमुदीरणाव्यवच्छेदोदेशमाह पण नव 'इग सत्तरसं, अट्ठ य चउर छक छ च्चेव / 'इग दुग सोलगुयालं, उदीरणा होइ जोगता // 5 // इहोदयाधिकारमनुसृत्य भावनीयमुदीरणाभिलापेन / नवरं विशेष उच्यते-प्रमत्तसंयतगुणस्थाने प्रकृत्यष्टकस्योदीरणाव्यवच्छेदः / उदीरणा त्वेकाशीतेरुदयवत् / अप्रमत्ते चतरुणां प्रकृतीनामुदीरणाव्यवच्छेदः / प्रमत्तव्यवच्छिन्नमष्टकमेकाशीतरपनीयते, शेषायात्रिसप्ततेरुदीरणा। अपूर्वकरणे षण्णां व्यवच्छेदः / अप्रमत्तव्यवच्छिन्ने चतुष्के त्रिसप्ततेरपनीते शेषाया एकोनसप्तते १.“शेषायामकान्नाशी” इति वा पाठः। एवमग्रेऽपि 'एकोनचत्वारिंशत् एकोनषष्टिः' इत्यादावपि 'एकान्नचत्वारिंशत् एकान्नषष्ठिः,' इत्यादि "नविंशत्यादिनेकोऽञ्चान्त” (सिद्ध० 3-1-66) इति सूत्रेण तत्पुरुषसमासे एकशब्दस्य 'अद्' इत्यन्तागमे च ज्ञेयम् / / 2 "सूक्ष्मरागव्यव” इति वा पाठः / / 3-4 "इगि" इत्यपि पाठः।