________________ 98] कर्मस्तवाख्ये द्वितीये कर्मप्रन्थे न्धः / चतुर्थभागे तु तृतीयभागव्यवच्छिन्नामेकां मुक्त्वा शेषाया एकानविंशबन्धः / पञ्चमभागे तु चतुर्थभागे व्यवच्छिन्नामेको मुक्त्वा शेषाणामष्टादशानां बन्धो बोद्धव्यः / 'सोलस सुहमसरागे' इति, सूक्ष्मसम्परायगुणस्थाने षोडशेति विभक्तिव्यत्ययात्षोडशानां कर्मप्रकतीनां बन्धव्यवच्छेदः / इह चानिवृत्तिवादरसम्परायपश्चमभागव्यवच्छिन्नायामेकस्यां कर्मप्रकृतावष्टादशभ्योऽपनीतायां शेषाणां सप्तदशानां बन्धः / 'साय सजोगी जिणवरिंदे' इति, सयोगिकेवलिगुणस्थाने सातस्यैकस्य बन्धव्यवच्छेदः / जिनवरेन्द्र इति पूर्ववत् / सूक्ष्मसम्परायव्यवच्छिन्नासु षोडशसु प्रकृतिषु सप्तदशभ्योऽपनीतासूपशान्तमोहक्षीणमोहसयोगिकेवलिगुणस्थानेषु शेषाया एकस्याः सातवेदनीयकर्मप्रकृतेर्वन्धः / अयोगिकेवली त्वबन्धकः, पुद्गलग्रहणहेतोर्योगस्याभावात् / उक्तं हि-'जोगा पगइपएसं' इति // 3 // उक्तो गुणस्थानेषु प्रकृतिबन्धव्यवच्छेदोद्देशः / इदानीं तेष्वेव क्क कियतीनां कर्मप्रकृतीनामुदयव्यवच्छेदः ? इत्याह पण नव 'इग सत्तरसं, अड पंच य चउर छक्क छ च्चेव। .. इग दुग सोलस तीसं, बारस उदए 'अजोगंता॥४॥ पश्च 1 नव 2 एका 3 सप्तदश 4 अष्टौ 5 पञ्च 6 च चतस्त्रः 7 षट्कं 8 षट् 9 चैव . एका 10 द्विकं 11 षोडश 12 त्रिंशत् 13 द्वादश 14 कर्मप्रकृतयो यथासङ्खथ मिथ्यादृष्टिगुणस्थानप्रभृत्ययोग्यन्ता योज्याः / कर्मप्रकृतीनां च द्वाविंशं शतमुदयोदीरणयोरधिक्रियते, तच्च दर्शयिष्यामः / तत्र-मिथ्यादृष्टिगुणस्थाने पश्चानामुदयव्यवच्छेदः पूर्वोक्त एव व्यवच्छेदार्थः सर्वत्रानुसरणीयः इह सम्यक्त्वसम्यग्मिथ्यात्वाहारकशरीरतदङ्गोपाङ्गनामतीर्थकरनाम्नां पश्चानां प्रकृतीनामुदयो मिथ्यादृष्टेर्नास्ति / शेषस्य सप्तदशोत्तरस्य शतस्योदयः / सासादनसम्यग्दृष्टिगुणस्थाने नवानामुदयव्यवच्छेदः / सासादनभावस्थस्य नरकेधूत्पादो न संभवतीति तदपान्तरालगतिभावी नरकानुपूर्व्या नास्त्युदय इति तत्सहिते मिथ्यादृष्टिव्यवच्छिन्ने पञ्चके सप्तदशोत्तरशतादपनीते शेषस्यैकादशोत्तरशतस्योदयः / सम्यग्मिथ्यादृष्टिगुणस्थाने त्वेकस्याः कर्मप्रकृतेरुदयव्यवच्छेदः / सम्यग्मिथ्यादृष्टेर्विग्रहगतिर्न संभवति, 'न सम्ममिच्छो कुणइ कालं' इति वचनात् / अतो विग्रहगतिभावी नास्त्यानुपूर्वीचतुष्कस्योदयः / तत्र नरकानुपूर्वी पूर्वा(म)पनीतैव, शेषत्रयसहितं सासादनव्यवच्छिन्नं नवकं द्वादश भवन्ति / तेष्वेकादशोचरशतादपनीतेषु शेषा नवनवतिः, तस्यां सम्यग्मिथ्यात्वे प्रक्षिप्ते शतस्योदयः / अविरतसम्यग्दृष्टिगुणस्थाने सप्तदशानां प्रकृतीनामुदयव्यवच्छेदः / सम्यग्मिथ्यादृष्टिव्यवच्छिन्नामेकां प्रकृति 1-2 "इगि” इत्यपि पाठः 3 “य” इत्यपि पाठः / 4 "शेषायां नवनवतौ सम्यग्मिथ्यात्वं प्रक्षिप्यते ततश्च शतस्योदयः" इत्यपि पाठः।