________________ वन्धमाश्रित्य गुणस्थानकेषु व्यवछिद्यमानप्रकृतिसङ्ख्या (7 चतुःसप्ततेर्वन्धः 'अविरए य दस पयडो' इति, अविरतसम्यग्दृष्टिगुणस्थाने दश प्रकृतयो बन्धं प्रतीत्य व्यपच्छिमाः। पूर्वोक्तायां चतुःसप्ततौ देवमनुष्यायुष्कतीर्थकरनामसु प्रक्षिप्तेषु सप्तसप्ततेन्धः / 'चउ छक्कमेग देसे, विरए य कमेण वोच्छिन्ना' इति, चतस्त्रः पटक एक देशे इति देशविरतगुणस्थाने, विरते चेति विरतो द्विविधः, प्रमत्तोऽप्रमत्तश्च तस्मिन्निति / कमुक्तं भवति ?-देशविरतगुणस्थाने चतस्रः प्रमत्तसंयतगुणस्थाने, षट्कं अप्रमत्तसंयतगुणस्थाने त्वेका कर्मप्रकृतिः क्रमेण यथासंख्यं व्यवच्छिन्नाः / तत्र देशविरतगुणस्थाने दशसु प्रकतिषु अविरतसम्यग्दृष्टिव्यवच्छिन्नासु सप्तसप्ततेरपनीतासु शेषायाः सप्तषष्टेर्बन्धः / प्रमत्तसंयतगुणम्थाने तु देशविरतव्यवच्छिन्नासु चतसृषु प्रकृतिषु सप्तष टेरपनीतासु शेषायास्त्रिषष्टेर्वन्धः / अप्रमत्तसंयतगुणस्थाने तु प्रमत्तसंयतव्यवच्छिन्नासु षट्सु प्रकृतिषु त्रिषष्टेपनीतासु शेषायां सप्त पश्चाशति द्वयोराहारकशरीराहारकाङ्गोपाङ्गयोः प्रक्षिप्तयोरेकोनषष्टेबन्धः / प्रमत्तसंयतगुणस्थाने तु तत्प्रत्यये संयमे सत्यपि नास्त्याहारकद्वयवन्धः, तस्य प्रमादरहितविशिष्टसंयमप्रत्ययत्वात् / देवायुषस्तु बन्धे व्यवच्छिन्ने सत्यप्रमत्तसंयतस्याप्यष्टपञ्चाशतो बन्धः // 2 // दुगतीसचउरपुव्वे, पंच नियट्टिमि बंधवोच्छेओ। मोलस सुहुमसरागे, माय मजोगी जिणवरिंदे // 3 // (टीका) 'दुगतीसचउरपुव्वे' इति, अपूर्वकरणगुणस्थाने त्वन्तमुहूर्तमात्रायास्तदद्धायाः भागसप्तकम् / तत्र प्रथमे सप्तभागे द्विकस्य बन्धव्यवच्छेद इति वक्ष्यमाणेन संबन्धः / पष्ठे सप्तभागे त्रिंशतः, चरमे सप्तभागे चतसृणां प्रकृतीनां वन्धव्यवच्छेदः / तत्र प्रथमे सप्तभागे प्रागुक्ताया अष्टपञ्चाशतो बन्धः / द्वितीयादिभागेपु तु प्रथमभागव्यवच्छिन्नं प्रकृतिद्वयमष्टपञ्चाशतः शोध्यते, शेषायाः षट्पञ्चाशतो बन्धः / सप्तमभागे षष्ठभागव्यवच्छिन्नायां त्रिंशति षट्पञ्चाशतः शोधितायां शेषायाः षड्विंशतेर्बन्धः / 'पंच नियटिमि बंधवोच्छेओ' इति, अनिवृत्तिवादर सम्परायगुणस्थाने पश्चानां कर्मप्रकृतीनां बन्धव्यवच्छेदः / 'पञ्च' इति, छन्दोवशादापत्वाच्च षष्ठयर्थ प्रथमा, दृश्यते ह्या विभक्तिव्यत्ययः / तद्यथा-'अन्नत्थूससिएण' इति / अन्यत्रोच्छचसितादिति पश्चम्यर्थे तृतीया / एवं द्विकत्रिंशचतुरित्यत्रापि समाहारद्वन्द्वात्पष्ठयर्थे प्रथमा द्रष्टव्या। तासां च पश्चानां न युगपद्धन्धव्यवच्छेदः, किन्तु क्रमेणानिवृत्त्यद्धायाः पञ्चसु भागेषु एकस्याः कर्मप्रकृतेः प्रथमभागे, द्वितीयस्या द्वितीये, तृतीयस्यास्तृतीये, चतुर्थ्याश्चतुर्थे, पञ्चम्याः पञ्चमे भागे बन्धव्यवच्छेद इति / तत्र प्रथमे भागे चतसृषु प्रकृतिष्वपूर्वकरणगुणस्थानसप्तमभागव्यवच्छिन्नासु पड्विंशतेरपनीतासु शेषाया द्वाविशतेन्धिः / द्वितीयभागे प्रथमभागव्यवच्छिन्नामेकामपनीय शेष कविंशतेर्वन्धः / तृतीये भागे द्वितीयभागव्यवच्छिन्नामेकामपनीय शेषाया विंशत