________________ कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे नपूर्वकोटी विहृत्यान्तमु हूतावशेषायुष्कः सयोगिकेवली प्रथमं बादरकाययोगेन बादरवाङ्मनोयोगी निरुणद्धि / ततः सूक्ष्मकाययोगेन बादरं काययोगं निरुणद्धि, सति तस्मिन् सूक्ष्मयोगस्य निरोद्धमशक्यत्वात् / ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मक्रियमनिवर्तिशुक्लध्यानं ध्यायन सूक्ष्मकाययोगेनसूक्ष्यवाङ्मनोयोगौ निरुणद्धि / ततस्तमेव सूक्ष्मकाययोगं स्वात्मनैव निरुणद्धि / तन्निरोधानन्तरं समच्छिन्नक्रियमप्रतिपातिशुक्लध्यानं ध्यायन हस्वपश्चाक्षरोच्चारणमात्रं कालं शैलेशीकरणं प्रविष्टो भवति शीलस्य योगलेश्याकलङ्कविप्रमुक्तयथाख्यातचारित्रलक्षणस्य य ईशः स शीलेशः, तस्येयं शैलेशी / त्रिभागोनस्वदेहावगाहनायामुदरादिरन्ध्रपूरणवशात्सङ्कोचितस्वप्रदेशस्य शीलेशस्यात्मनोऽत्यन्तं स्थिरावस्थितिरित्यर्थः / तस्यां करणं पूर्वरचितशैलेशीसमयसमानगुणश्रेणीकस्य वेदनीयनामगोत्राख्यस्याघातिकमंत्रितयस्यासंख्येयगुणया श्रेण्या, आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणम् , तच्चासौ प्रविष्टः सन अयोगी चासौ केवली चेत्ययोगिकेवली भवस्थः / स च शैलेशीकरणचरमसमयान्तरसमये छिन्नचतुर्विधकर्मबन्धनत्वाच्छिन्नफलबन्धनैरण्डबीजवद्गतिप्रवृत्तेः, व्यवगतकर्मलेपसङ्गत्वात् / विगतमृल्लेपसङ्गगम्भीरजलतलवयु परितलगाम्यलाबुवत् सर्वथा विप्रहाय शरीरत्रयमूर्धमृजुश्रेण्या समयेन गच्छत्यालोकान्तरम् , न परतोऽपि, मत्स्यवजलकल्पगत्युषष्टम्भकधर्मास्तिकायाभावात् / तत्रासो सिद्धोऽयोगिकेवली शाश्वतं कालमास्ते 14 / / इति व्याख्यातानि लेशतो गुणस्थानकानि / ' गाथाऽधुना वित्रियते-'मिच्छे' इति, भीमसेनो भीम इत्यादिवत्पदवांच्यस्यार्थस्य पदैकदेशेनाप्यभिधानदर्शनान्मिथ्या दृष्टिगुणस्थानमित्यर्थः / एवमुत्तरेष्वपि पदवाच्यस्यार्थस्य पदैकदेशप्रयोगो द्रष्टव्यः / तत्र षोडशेति बन्धमाश्रित्य कर्मप्रकृतय इति प्रक्रमाद्गम्यते / व्यवच्छिन्ना इति वक्ष्यमाणेन संबन्धः / तत्र भावस्तदुत्तरेषु चाभावो व्यवच्छेदार्थः / केवलज्ञानं जम्बूस्वामिनि यथा, विंशत्युत्तरं च कर्मप्रकृतिशतं बन्धेऽधिक्रियते तच्च दर्शयिष्यामः / तत्र तीर्थकरनाम्न आहारकद्वयस्य च मिथ्यादृष्टेबन्धो नास्ति, तद्वन्धस्य यथासङ्घय सम्यक्त्वसंयमप्रत्ययत्वात् / उक्तं च-“सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं" इति / शेषस्य सप्तदशोत्तरस्य कर्मप्रकृतिशतस्य मिथ्यादृष्टेन्धि इति / 'पणुवोस सासणे' इति, पञ्चविंशतिः कर्मप्रकृ. तयः सासादनसम्यग्दृष्टिगुणस्थाने बन्धं प्रतीत्य व्यवछिन्नाः / इह तु मिथ्यादृष्टिषोडशके सप्तदशोत्तरशतादपनीते शेषस्यैकोत्तरशतस्य बन्धः / तीर्थकरनाम्नस्तु सत्यपि तत्प्रत्यये सम्यक्त्वे नास्तीह बन्धः, तस्य हि बन्धारम्भः शुद्धसम्यग्दृष्टेरेव भवति / तत्सत्कर्मा च सासादनत्वं न प्राप्नोति / सम्यग्मिथ्यादृष्टिगुणस्थाने तु देवमनुष्यायुषोरपि बन्धो नास्ति, आयुर्वन्धाध्यवसायस्थानविरहात् / अतस्तत्सहितायां सासादनव्यवच्छिन्नपञ्चविंशतावेकोत्तरशतादपनीतायां शेष 1 "न्तात् , न” इत्यपि // 2 "धानान्मिथ्या” इति वा पाठः।