________________ मृन्ममम्परायादिगुणस्थानम्वरूपवर्णनम् क्षणा अभावमापन्नाः कपाया यस्य स क्षीणकषायः / तत्रानन्तानुवन्धिकपायान प्रथममविरतसम्यग्दृष्ट्याद्यप्रमत्तान्तगुणस्थानेषु क्षपयति / दर्शनत्रितयं चेतेषु पूर्वोक्तगुणस्थानेषु क्षपयति / ततः शेषान् संज्वलनलोभवर्जाननिवृत्तिवादरसम्परायगुणस्थाने वक्ष्यमाणेन क्रमेण क्षपयति / संज्वलनलोभं सूक्ष्मसम्परायगुणस्थान इति / तदेवमन्येष्वपि सरागेषु क्षीणकषायव्यपदेशः संभवति क्वापि कियतामपि कषायाणां क्षीणत्वसंभवात् , अतस्तद्वयवच्छेदार्थं वीतरागग्रहणम् / श्रीणकषायवीतरागत्वं च केवलिनोऽप्यस्तीति तद्वयवच्छेदार्थ छद्मस्थग्रहणम् / छद्मस्थग्रहणेऽपि च कृते सरागव्यवच्छेदार्थ वीतरागग्रहणम् / वीतरागश्चासौ छद्मस्थश्चेति वीतरागच्छद्मस्थः / स चोपशान्तकपायोऽप्यस्तीति तद्वयवच्छेदार्थ क्षीणकषायग्रहणम् / क्षीणकषायश्चासौ वीतरागच्छअस्थश्च क्षीणकपायवीतरागच्छमस्थः तस्य गुणस्थानमिति प्राग्वत् 12 // वीर्यान्तरायक्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्य योगः / स द्विधा, सकरणोऽकरणश्च / तत्रालेश्यस्य केवलिनः कृत्स्रयोज्ञेयदृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिधो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते / यस्तु मनोवाकायकरण साधनसलेश्यजीवक को जीवप्रदेशपरिस्पन्दात्मको व्यापारः स सकरणस्तेकेवलिनो नेहाधिकारः / स च करणभेदात्तिस्रः संज्ञा लभते, तद्यथा-कायिकोवाचिको मानसश्चेति / नत्र भगवतोऽभिसन्धिपूर्वस्त्रिविधोऽपि भवति / कायिकश्चक्रमणनिमेषोन्मेषादौ / वाचिको देशनादौ / मानसो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनायाम् , ते हि भगवत्प्रयुक्तानि मनोद्रष्टव्याणि मनःपर्यायज्ञानेनावधिज्ञानेन च पश्यन्ति, ततस्तद्वारेण पृष्टमर्थमवगच्छन्ति / सह योगेन वर्तत इति सयोगः सयोगीति वा, बहुव्रीहेमत्वर्थीय इति यथा -सर्वधनीत्यादी सर्वधनादेराकृतिगणत्वात् , केवलमेकमसहायमसाधारणमनन्तमपरिशेषं च / तत्रैकं तद्भावे छानस्थिकशेषज्ञानदर्शनाभावात / 'उक्तं च-"उप्पन्नंमि अणंते, नठमि य छाउमथिए नाणे" इति / असहायं न तु मतिज्ञानवदिन्द्रियमनःकृतसहायकापेक्षमर्थग्रहणे प्रवतते, परनिरपेक्षनिरावरणात्मस्वभावत्वात् / असाधारणमनन्यसदृशं, तदन्यस्यैवंविधज्ञानदर्शनाभावात् / अनन्तमपर्यवसानं, पुनस्तत्स्वरूपतिरस्करणकारणघातिकर्माऽत्यन्तक्षयोद्भूतत्वात् द्रव्याघनन्तज्ञेयग्रहणात्मकत्वाद्वा अनन्तम् / अपरिशेषं संपूर्ण, संभिन्नापरिशेषद्रव्यक्षेत्रकालभावलक्षणवस्तुग्रहणस्वरूपत्वात् / तच्च द्विविधं, ज्ञानं दर्शनं चेति / तत्केवलं यस्यास्तीति स केवली, सयोगी चासौ केवली चेति सयोगिकेवली तस्य गुणस्थानं तथैव 13 / / नास्ति यथोक्तो योगो निरुद्धत्वादस्यत्ययोगः अयोगीति वा पूर्ववदिति / स त्रिविधोऽपि योगः प्रत्येकं द्विविधः, सूक्ष्मो बादरश्च / तत्र केवलोत्पत्तेरुत्तरकालं जघन्येनान्तमुहूर्तमुत्कर्षेण देशो 1 "तदुक्तम्" इत्यपि पाठः //